स्तोत्र

॥ बटुकभैरवकवचम् ॥

शिव

 ॥ ॐ ॥ महादेव उवाच – प्रीयतां भैरवो देवो नमो वै भैरवाय च ।देवेशि देहरक्षार्थं कारणं कथ्यतां ध्रुवम् ॥ १ ॥ म्रियन्ते साधका येन विना श्मशानभूमिषु ।रणेषु चातिघोरेषु महामृत्युभयेषु च ॥ २ ॥ शृङ्गीसलीलवज्रेषु ज्वरादिव्याधिवह्निषु । देव्युवाच – कथयामि शृणु प्राज्ञ बटुककवचं शुभम् ॥ ३ ॥ गोपनीयं प्रयत्नेन मातृकाजारजो यथा ।ॐ अस्य श्रीबटुकभैरवकवचस्यआनन्दभैरव ऋषिः । […]

॥ बटुकभैरवकवचम् ॥ Read More »

श्री वैद्यनाथाष्टकम्

शिव

॥ ॐ॥ श्रीरामसौमित्रिजटायुवेद-षडाननादित्यकुजार्चिताय । श्रीनीलकण्ठाय दयामयाय श्रीवैद्यनाथाय नमः शिवाय ॥ १॥ शम्भो महादेव शम्भो महादेव शम्भो महादेव शम्भो महादेव । शम्भो महादेव शम्भो महादेव शम्भो महादेव शम्भो महादेव ॥ गङ्गाप्रवाहेन्दुजटाधराय त्रिलोचनाय स्मरकालहन्त्रे । समस्तदेवैरभिपूजिताय श्रीवैद्यनाथाय नमः शिवाय ॥ २॥ शम्भो महादेव… भक्तप्रियाय त्रिपुरान्तकाय पिनाकिने दुष्टहराय नित्यम् । प्रत्यक्षलीलाय मनुष्यलोके श्रीवैद्यनाथाय नमः शिवाय ॥ ३॥ शम्भो

श्री वैद्यनाथाष्टकम् Read More »

॥ शिवषडक्षरस्तोत्रम् ॥

शिव

॥ ॐ ॥ ॐकारं बिन्दुसंयुक्तं नित्यं ध्यायन्ति योगिनः ।कामदं मोक्षदं चैव ॐकाराय नमो नमः ॥ १॥ नमन्ति ऋषयो देवा नमन्त्यप्सरसां गणाः ।नरा नमन्ति देवेशं नकाराय नमो नमः ॥ २॥ महादेवं महात्मानं महाध्यानपरायणम् ।महापापहरं देवं मकाराय नमो नमः ॥ ३॥ शिवं शान्तं जगन्नाथं लोकानुग्रहकारकम् ।शिवमेकपदं नित्यं शिकाराय नमो नमः ॥ ४॥ वाहनं वृषभो यस्य वासुकिः कण्ठभूषणम्

॥ शिवषडक्षरस्तोत्रम् ॥ Read More »

श्रीपशुपत्यष्टकम्

शिव

॥ ॐ ॥ पशुपतीन्दुपतिं धरणीपतिंभुजगलोकपतिं च सतीपतिम्।प्रणतभक्तजनार्तिहरं परंभजत रे मनुजा गिरिजापतिम्॥१॥ न जनको जननी न च सोदरःन तनयो न च भूरिबलं कुलम्।अवति कोऽपि न कालवशं गतंभजत रे मनुजा गिरिजापतिम्॥२॥ मुरजडिण्डिमवाद्यविलक्षणंमधुरपञ्चमनादविशारदम्।प्रमथभूतगणैरपि सेवितंभजत रे मनुजा गिरिजापतिम्॥३॥ शरणदं सुखदं शरणान्वितंशिव शिवेति शिवेति नतं नृणाम्।अभयदं करुणावरुणालयंभजत रे मनुजा गिरिजापतिम्॥४॥ नरशिरोरचितं मणिकुण्डलंभुजगहारयुतं वृषभध्वजम्।चितिरजोधवलीकृतविग्रहंभजत रे मनुजा गिरिजापतिम्॥५॥ मखविनाशकरं शशिशेखरंसततमध्वरयाजिफलप्रदम्।प्रलयदग्धसुरासुरमानवंभजत रे मनुजा

श्रीपशुपत्यष्टकम् Read More »

श्रीभैरवस्तवः

शिव

॥ ॐ ॥ ॥ ॐ नमो भगवते भैरवाय ॥ अथ भैरवस्तवः व्याप्तचराचरभावविशेषंचिन्मयमेकमनन्तमनादिम्।भैरवनाथमनाथशरण्यंत्वन्मयचित्तया हृदि वन्दे॥१॥ त्वन्मयमेतदशेषमिदानींभाति मम त्वदनुग्रहशक्त्या।त्वं च महेश सदैव ममात्मास्वात्ममयं मम तेन समस्तम्॥२॥ स्वात्मनि विश्वगते त्वयि नाथेतेन न संसृतिभीतिः कथास्ति।स्वप्नेऽपि दुर्धरदुःखविमोह-त्रासविधायिषु कर्मगणेषु॥३॥ अन्तक! मां प्रति मा द्रुह्येनाःक्रोधकरालतमा विदधीहि।शङ्करसेवनचिन्तनधीरःभीषणभैरवशक्तिमयोऽस्मि॥४॥ इत्थमुपोढभवन्मयसंविद्-दीधितिदारितभूरितमिस्रः।मृत्युयमान्तककर्मपिशाचैःनाथ! नमोऽस्तु न जातु बिभेमि॥५॥ प्रोदितसत्यविबोधमरीचि-प्रोक्षितविश्वपदार्थतत्त्वः।भावपरामृतनिर्भरपूर्णेत्वय्यहमात्मनि निर्वृतिमेमि॥६॥ मानसगोचरमेति यदैवक्लेशदशातनुतापविधात्री।नाथ! तदैव मम त्वदभेद-स्तोत्रपरामृतवृष्टिरुदेति॥७॥ शङ्कर! सत्यमिदं व्रतदान-स्नानतपोभवतापविनाशि।तावकशास्त्रपरामृतचिन्तास्यन्दति चेतसि

श्रीभैरवस्तवः Read More »

श्रीचिदम्बराष्टकम्

शिव

 ॥ ॐ ॥ कृपासमुद्रं सुमुखं त्रिनेत्रंजटाधरं पार्वतीवामभागम्।सदाशिवं रुद्रमनन्तरूपंचिदम्बरेशं हृदि भावयामि॥१॥ वाचामतीतं फणिभूषणाङ्गंगणेशतातं धनदस्य मित्रम्।कन्दर्पनाशं कमलोत्पलाक्षंचिदम्बरेशं हृदि भावयामि॥२॥ रमेशवन्द्यं रजताद्रिनाथंश्रीवामदेवं भवदुःखनाशम्।रक्षाकरं राक्षसपीडितानांचिदम्बरेशं हृदि भावयामि॥३॥ देवादिदेवं जगदेकनाथंदेवेशवन्द्यं शशिखण्डचूडम्।गौरीसमेतं कृतविघ्नदक्षंचिदम्बरेशं हृदि भावयामि॥४॥ वेदान्तवेद्यं सुरवैरिविघ्नंशुभप्रदं भक्तिमतान्तराणाम्।कालात्मकं श्रीकरुणाकटाक्षंचिदम्बरेशं हृदि भावयामि॥५॥ हेमाद्रिचापं त्रिगुणात्मभावंगुहात्मजं व्याघ्रपुरीशमाद्यम्।श्मशानवासं वृषवाहनस्थंचिदम्बरेशं हृदि भावयामि॥६॥ आद्यन्तशून्यं त्रिपुरारिमीशंनन्दीशमुख्यस्तुतिवैभवाढ्यम्।समस्तदेवैः परिपूजिताङ्घ्रिंचिदम्बरेशं हृदि भावयामि॥७॥ तमेव भान्तं ह्यनुभाति सर्वंअनेकरूपं परमार्थमेकम्।पिनाकपाणिं भवनाशहेतुंचिदम्बरेशं हृदि भावयामि॥८॥ विश्वेश्वरं

श्रीचिदम्बराष्टकम् Read More »

॥ उमामहेश्वरस्तोत्रम् ॥

शिव

॥ ॐ ॥ ॥ श्रीगणेशाय नमः ॥ नमः शिवाभ्यां नवयौवनाभ्यांपरस्पराश्लिष्टवपुर्धराभ्याम्।नगेन्द्रकन्यावृषकेतनाभ्यांनमो नमः शङ्करपार्वतीभ्याम्॥१॥ नमः शिवाभ्यां सरसोत्सवाभ्यांनमस्कृताभीष्टवरप्रदाभ्याम्।नारायणेनार्चितपादुकाभ्यांनमो नमः शङ्करपार्वतीभ्याम्॥२॥ नमः शिवाभ्यां वृषवाहनाभ्यांविरिञ्चिविष्ण्विन्द्रसुपूजिताभ्याम्।विभूतिपाटीरविलेपनाभ्यांनमो नमः शङ्करपार्वतीभ्याम्॥३॥ नमः शिवाभ्यां जगदीश्वराभ्यांजगत्पतिभ्यां जयविग्रहाभ्याम्।जम्भारिमुख्यैरभिवन्दिताभ्यांनमो नमः शङ्करपार्वतीभ्याम्॥४॥ नमः शिवाभ्यां परमौषधाभ्यांपञ्चाक्षरीपञ्जररञ्जिताभ्याम्।प्रपञ्चसृष्टिस्थितिसंहृताभ्यांनमो नमः शङ्करपार्वतीभ्याम्॥५॥ नमः शिवाभ्यामतिसुन्दराभ्यांअत्यन्तमासक्तहृदम्बुजाभ्याम्।अशेषलोकैकहितङ्कराभ्यांनमो नमः शङ्करपार्वतीभ्याम्॥६॥ नमः शिवाभ्यां कलिनाशनाभ्यांकङ्कालकल्याणवपुर्धराभ्याम्।कैलासशैलस्थितदेवताभ्यांनमो नमः शङ्करपार्वतीभ्याम्॥७॥ नमः शिवाभ्यामशुभापहाभ्यांअशेषलोकैकविशेषिताभ्याम्।अकुण्ठिताभ्यां स्मृतिसम्भृताभ्यांनमो नमः शङ्करपार्वतीभ्याम्॥८॥ नमः शिवाभ्यां रथवाहनाभ्यांरवीन्दुवैश्वानरलोचनाभ्याम्।राकाशशाङ्काभमुखाम्बुजाभ्यांनमो नमः शङ्करपार्वतीभ्याम्॥९॥ नमः शिवाभ्यां जटिलन्धराभ्यांजरामृतिभ्यां

॥ उमामहेश्वरस्तोत्रम् ॥ Read More »

॥ श्रीचन्द्रशेखराष्टकम् ॥

शिव

॥ ॐ ॥ चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर पाहि माम्।चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर रक्ष माम्॥१॥ रत्नसानुशरासनं रजताद्रिशृङ्गनिकेतनंसिञ्जिनीकृतपन्नगेश्वरमच्युताननसायकम्।क्षिप्रदग्धपुरत्रयं त्रिदिवालयैरभिवन्दितंचन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः॥२॥ पञ्चपादपपुष्पगन्धिपदाम्बुजद्वयशोभितंभाललोचनजातपावकदग्धमन्मथविग्रहम्।भस्मदिग्धकलेवरं भवनाशनं भवमव्ययंचन्द्रशेखर चन्द्रशेखर चन्द्रशेखर रक्ष माम्॥३॥ मत्तवारणमुख्यचर्मकृतोत्तरीयमनोहरंपङ्कजासनपद्मलोचनपूजिताङ्घ्रिसरोरुहम्।देवसिन्धुतरङ्गसीकरसिक्तशुभ्रजटाधरंचन्द्रशेखर चन्द्रशेखर चन्द्रशेखर रक्ष माम्॥४॥ यक्षराजसखं भगाक्षहरं भुजङ्गविभूषणंशैलराजसुतापरिष्कृतचारुवामकलेवरम्।क्ष्वेलनीलगलं परश्वधधारिणं मृगधारिणंचन्द्रशेखर चन्द्रशेखर चन्द्रशेखर रक्ष माम्॥५॥ कुण्डलीकृतकुण्डलेश्वरकुण्डलं वृषवाहनंनारदादिमुनीश्वरस्तुतवैभवं भुवनेश्वरम्।अन्धकान्तकमाश्रितामरपादपं शमनान्तकंचन्द्रशेखर चन्द्रशेखर चन्द्रशेखर रक्ष माम्॥६॥ भेषजं भवरोगिणामखिलापदामपहारिणंदक्षयज्ञविनाशनं त्रिगुणात्मकं त्रिविलोचनम्।भुक्तिमुक्तिफलप्रदं सकलाघसङ्घनिबर्हणंचन्द्रशेखर चन्द्रशेखर

॥ श्रीचन्द्रशेखराष्टकम् ॥ Read More »

दारिद्र्यदहनशिवस्तोत्रम्

शिव

॥ ॐ ॥ विश्वेश्वराय नरकार्णवतारणायकर्णामृताय शशिशेखरधारणाय।कर्पूरकान्तिधवलाय जटाधराय।दारिद्र्यदुःखदहनाय नमः शिवाय॥१॥ गौरीप्रियाय रजनीशकलाधराय।कालान्तकाय भुजगाधिपकङ्कणाय।गङ्गाधराय गजराजविमर्दनाय।दारिद्र्यदुःखदहनाय नमः शिवाय॥२॥ भक्तिप्रियाय भवरोगभयापहाय।उग्राय दुर्गभवसागतारणाय।ज्योतिर्मयाय गुणनामसुनृत्यकाय।दारिद्र्यदुःखदहनाय नमः शिवाय॥३॥ चर्माम्बराय शवभस्मविलेपनाय।भालेक्षणाय मणिकुण्डलमण्डिताय।मञ्जीरपादयुगलाय जटाधराय।दारिद्र्यदुःखदहनाय नमः शिवाय॥४॥ पञ्चाननाय फणिराजविभूषणाय।हेमांशुकाय भुवनत्रयमण्डिताय।आनन्दभूमिवरदाय तमोमयाय।दारिद्र्यदुःखदहनाय नमः शिवाय॥५॥ भानुप्रियाय भवसागतारणाय।कालान्तकाय कमलासनपूजिताय।नेत्रत्रयाय शुभलक्षणलक्षिताय।दारिद्र्यदुःखदहनाय नमः शिवाय॥६॥ रामप्रियाय रघुनाथवरप्रदाय।नागप्रियाय नरकार्णवतारणाय।पुण्येषु पुण्यभरिताय सुरार्चिताय।दारिद्र्यदुःखदहनाय नमः शिवाय॥७॥ मुक्तेश्वराय फलदाय गणेश्वराय।गीतप्रियाय वृषभेश्वरवाहनाय।मातङ्गचर्मवसनाय महेश्वराय।दारिद्र्यदुःखदहनाय नमः शिवाय॥८॥

दारिद्र्यदहनशिवस्तोत्रम् Read More »

अर्धनारीश्वरस्तोत्रम् 

शिव

॥ ॐ ॥ चाम्पेयगौरार्धशरीरकायै कर्पूरगौरार्धशरीरकाय । धम्मिल्लकायै च जटाधराय नमः शिवायै च नमः शिवाय ॥ १ ॥ कस्तूरिकाकुङ्कुमचर्चितायै चितारजःपुञ्जविचर्चिताय । कृतस्मरायै विकृतस्मराय नमः शिवायै च नमः शिवाय ॥ २ ॥ झणत्क्वणत्कङ्कणनूपुरायै पादाब्जराजत्फणिनूपुराय । हेमाङ्गदायै भुजगाङ्गदाय नमः शिवायै च नमः शिवाय ॥ ३ ॥ विशालनीलोत्पललोचनायै विकासिपङ्केरुहलोचनाय । समेक्षणायै विषमेक्षणाय नमः शिवायै च नमः शिवाय ॥ ४

अर्धनारीश्वरस्तोत्रम्  Read More »