भवानीभुजङ्गप्रयातस्तोत्रम्
माँ॥ ॐ ॥ षडाधारपङ्केरुहान्तर्विराज–त्सुषुम्नान्तरालेऽतितेजोल्लसन्तीम् ।सुधामण्डलं द्रावयन्तीं पिबन्तींसुधामूर्तिमीडे चिदानन्दरूपाम् ॥ १ ॥ ज्वलत्कोटिबालार्कभासारुणाङ्गींसुलावण्यशृङ्गारशोभाभिरामाम् ।महापद्मकिञ्जल्कमध्ये विराज–त्त्रिकोणे निषण्णां भजे श्रीभवानीम् ॥ २ ॥ क्वणत्किङ्किणीनूपुरोद्भासिरत्न–प्रभालीढलाक्षार्द्रपादाब्जयुग्मम् ।अजेशाच्युताद्यैः सुरैः सेव्यमानंमहादेवि मन्मूर्ध्नि ते भावयामि ॥ ३ ॥ सुशोणाम्बराबद्धनीवीविराज–न्महारत्नकाञ्चीकलापं नितम्बम् ।स्फुरद्दक्षिणावर्तनाभिं च तिस्रोवलीरम्ब ते रोमराजिं भजेऽहम् ॥ ४ ॥ लसद्वृत्तमुत्तुङ्गमाणिक्यकुम्भो–पमश्रीस्तनद्वन्द्वमम्बाम्बुजाक्षि ।भजे दुग्धपूर्णाभिरामं तवेदंमहाहारदीप्तं सदा प्रस्नुतास्यम् ॥ ५ ॥ शिरीषप्रसूनोल्लसद्बाहुदण्डै–र्ज्वलद्बाणकोदण्डपाशाङ्कुशैश्च ।चलत्कङ्कणोदारकेयूरभूषो–ज्ज्वलद्भिर्लसन्तीं भजे श्रीभवानीम् ॥ […]
भवानीभुजङ्गप्रयातस्तोत्रम् Read More »
