श्रीशीतलाष्टकम्
माँ॥ ॐ ॥ अस्य श्रीशीतलास्तोत्रस्य महादेव ऋषिः, अनुष्टुप् छन्दः, शीतला देवता, लक्ष्मीर्बीजं, भवानी शक्तिः, सर्वविस्फोटकनिवृत्त्यर्थे जपे विनियोगः ॥ ईश्वर उवाच । वन्देऽहं शीतलां देवीं रासभस्थां दिगम्बराम् ।मार्जनीकलशोपेतां शूर्पालङ्कृतमस्तकाम् ॥ १ ॥ वन्देऽहं शीतलां देवीं सर्वरोगभयापहाम् ।यामासाद्य निवर्तेत विस्फोटकभयं महत् ॥ २ ॥ शीतले शीतले चेति यो ब्रूयाद्दाहपीडितः ।विस्फोटकभयं घोरं क्षिप्रं तस्य प्रणश्यति ॥ ३ ॥ […]
