वाणीवन्दना

॥ ॐ ॥

वीणानिनादिनि देवि मातः शारदे शुभदे शुभे ।
सौख्यप्रदायिनि बुद्धिदात्रि स्नेहदे सुखदे प्रभे ।
हे ज्ञानदे वरदे प्रिये विद्याविभाविभुवल्लभे ।
साहित्यवारिधिमज्जने मतिदे शिवे मतिदे हि मे ॥१॥

अज्ञाननाशिनि भव्यभाषाभाषिणि प्रबलेऽबले ।
विद्याविलासिनि शुभ्रवस्त्रे शास्त्रसारसुसारिणि ।
कर्तव्यकर्मविभाविनि ध्रुवधर्मकर्मविबोधिनि ।
मातः सरस्वति पाहि मां शरणागतं शरणप्रदे ॥२॥

धर्मार्थचिन्तनसंरते कलाकलितेश्वरि ।
सङ्गीतगीतिसुगायिनि प्रतिभाप्रदानपरायणे ।
हंसासने सुविराजिते सकलाश्रये जनमोददे ।
मातः सरस्वति पाहि मां शरणागतं शरणप्रदे ॥३॥

संसारबन्धनमुक्तिदे युक्तिप्रदे भुक्तिप्रदे ।
हे हे दयामयि शक्तिदे भक्तप्रिये भक्तिप्रदे ।
मायाममत्वविनाशिनि प्रज्ञापरे सन्मार्गदे ।
मोहान्धकारनिमज्जितं मां पाहि हे सद्बुद्धिदे ॥४॥

Leave a Comment

Your email address will not be published. Required fields are marked *