श्री स्वर्णाकर्षण भैरव स्तुती
शिवगंगेशपुत्रं डमरू त्रिशुलं वराभये संदथतं त्रिनेत्रं देव्यायुथं तप्त सुवर्ण वर्षम स्वर्णाक्रंशं भैरव मात्र यमा:
श्री स्वर्णाकर्षण भैरव स्तुती Read More »
गंगेशपुत्रं डमरू त्रिशुलं वराभये संदथतं त्रिनेत्रं देव्यायुथं तप्त सुवर्ण वर्षम स्वर्णाक्रंशं भैरव मात्र यमा:
श्री स्वर्णाकर्षण भैरव स्तुती Read More »
॥ ॐ ॥ गङ्गातरङ्गरमणीयजटाकलापं गौरीनिरन्तरविभूषितवामभागम् ।नारायणप्रियमनङ्गमदापहारं वाराणसीपुरपतिं भज विश्वनाथम् ॥ १॥ वाचामगोचरमनेकगुणस्वरूपं वागीशविष्णुसुरसेवितपादपीठम् ।वामेन विग्रहवरेण कलत्रवन्तं वाराणसीपुरपतिं भज विश्वनाथम् ॥ २॥ भूताधिपं भुजगभूषणभूषिताङ्गं व्याघ्राजिनाम्बरधरं जटिलं त्रिनेत्रम् ।पाशाङ्कुशाभयवरप्रदशूलपाणिं वाराणसीपुरपतिं भज विश्वनाथम् ॥ ३॥ शीतांशुशोभितकिरीटविराजमानं भालेक्षणानलविशोषितपञ्चबाणम् ।नागाधिपारचितभासुरकर्णपूरं वाराणसीपुरपतिं भज विश्वनाथम् ॥ ४॥ पञ्चाननं दुरितमत्तमतङ्गजानां नागान्तकं दनुजपुङ्गवपन्नगानाम् ।दावानलं मरणशोकजराटवीनां वाराणसीपुरपतिं भज विश्वनाथम् ॥ ५॥ तेजोमयं सगुणनिर्गुणमद्वितीयम् आनन्दकन्दमपराजितमप्रमेयम् ।नागात्मकं
श्रीविश्वनाथाष्टकम् Read More »
॥ ॐ ॥ भवाय चन्द्रचूडाय निर्गुणाय गुणात्मने ।कालकालाय रुद्राय नीलग्रीवाय मङ्गलम् ॥ १ ॥ वृषारूढाय भीमाय व्याघ्रचर्माम्बराय च ।पशूनां पतये तुभ्यं गौरीकान्ताय मङ्गलम् ॥ २ ॥ भस्मोद्धूलितदेहाय नागयज्ञोपवीतिने ।रुद्राक्षमालाभूषाय व्योमकेशाय मङ्गलम् ॥ ३ ॥ सूर्यचन्द्राग्निनेत्राय नमः कैलासवासिने ।सच्चिदानन्दरूपाय प्रमथेशाय मङ्गलम् ॥ ४ ॥ मृत्युञ्जयाय साम्बाय सृष्टिस्थित्यन्तकारिणे ।त्र्यम्बकाय शान्ताय त्रिलोकेशाय मङ्गलम् ॥ ५ ॥ गङ्गाधराय सोमाय
॥ ॐ ॥ सुवर्णपद्मिनीतटान्तदिव्यहर्म्यवासिनेसुपर्णवाहनप्रियाय सूर्यकोटितेजसे ।अपर्णया विहारिणे फणाधरेन्द्रधारिणेसदा नमः शिवाय ते सदाशिवाय शम्भवे ॥ १ ॥ सतुङ्गभङ्गजह्नुजासुधांशुखण्डमौलयेपतङ्गपङ्कजासुहृत्कृपीटयोनिचक्षुषे ।भुजङ्गराजमण्डनाय पुण्यशालिबन्धवेसदा नमः शिवाय ते सदाशिवाय शम्भवे ॥ २ ॥ चतुर्मुखाननारविन्दवेदगीतभूतयेचतुर्भुजानुजाशरीरशोभमानमूर्तये ।चतुर्विधार्थदानशौण्डताण्डवस्वरूपिणेसदा नमः शिवाय ते सदाशिवाय शम्भवे ॥ ३ ॥ शरन्निशाकरप्रकाशमन्दहासमञ्जुल-धरप्रवालभासमानवक्त्रमण्डलश्रिये ।करस्फुरत्कपालमुक्तरक्तविष्णुपालिनेसदा नमः शिवाय ते सदाशिवाय शम्भवे ॥ ४ ॥ सहस्रपुण्डरीकपूजनैकशून्यदर्शनात्सहस्रनेत्रकल्पितार्चनाच्युताय भक्तितः ।सहस्रभानुमण्डलप्रकाशचक्रदायिनेसदा नमः शिवाय ते सदाशिवाय शम्भवे
॥ ॐ ॥ मृत्युञ्जय परेशान जगदाभयनाशन ।तव ध्यानेन देवेश मृत्युं प्राप्नोति जीवति ॥ १॥ वन्दे ईशानदेवाय नमस्तस्मै पिनाकिने ।आदिमध्यान्तरूपाय मृत्युनाशं करोतु मे ॥ २॥ नमस्तस्मै भगवते कैलासाचलवासिने ।नमो ब्रह्मेन्द्ररूपाय मृत्युनाशं करोतु मे ॥ ३॥ त्र्यम्बकाय नमस्तुभ्यं पञ्चास्याय नमो नमः ।नमो दोर्दण्डचापाय मम मृत्युं विनाशय ॥ ४॥ नमोऽर्धेन्दुस्वरूपाय नमो दिग्वसनाय च ।नमो भक्तार्तिहन्त्रे च मम मृत्युं
श्रीशिवआह्वानमन्त्रः Read More »
॥ ॐ ॥ महादेव उवाच – प्रीयतां भैरवो देवो नमो वै भैरवाय च ।देवेशि देहरक्षार्थं कारणं कथ्यतां ध्रुवम् ॥ १ ॥ म्रियन्ते साधका येन विना श्मशानभूमिषु ।रणेषु चातिघोरेषु महामृत्युभयेषु च ॥ २ ॥ शृङ्गीसलीलवज्रेषु ज्वरादिव्याधिवह्निषु । देव्युवाच – कथयामि शृणु प्राज्ञ बटुककवचं शुभम् ॥ ३ ॥ गोपनीयं प्रयत्नेन मातृकाजारजो यथा ।ॐ अस्य श्रीबटुकभैरवकवचस्यआनन्दभैरव ऋषिः ।
॥ ॐ॥ श्रीरामसौमित्रिजटायुवेद-षडाननादित्यकुजार्चिताय । श्रीनीलकण्ठाय दयामयाय श्रीवैद्यनाथाय नमः शिवाय ॥ १॥ शम्भो महादेव शम्भो महादेव शम्भो महादेव शम्भो महादेव । शम्भो महादेव शम्भो महादेव शम्भो महादेव शम्भो महादेव ॥ गङ्गाप्रवाहेन्दुजटाधराय त्रिलोचनाय स्मरकालहन्त्रे । समस्तदेवैरभिपूजिताय श्रीवैद्यनाथाय नमः शिवाय ॥ २॥ शम्भो महादेव… भक्तप्रियाय त्रिपुरान्तकाय पिनाकिने दुष्टहराय नित्यम् । प्रत्यक्षलीलाय मनुष्यलोके श्रीवैद्यनाथाय नमः शिवाय ॥ ३॥ शम्भो
श्री वैद्यनाथाष्टकम् Read More »
॥ ॐ ॥ ॐकारं बिन्दुसंयुक्तं नित्यं ध्यायन्ति योगिनः ।कामदं मोक्षदं चैव ॐकाराय नमो नमः ॥ १॥ नमन्ति ऋषयो देवा नमन्त्यप्सरसां गणाः ।नरा नमन्ति देवेशं नकाराय नमो नमः ॥ २॥ महादेवं महात्मानं महाध्यानपरायणम् ।महापापहरं देवं मकाराय नमो नमः ॥ ३॥ शिवं शान्तं जगन्नाथं लोकानुग्रहकारकम् ।शिवमेकपदं नित्यं शिकाराय नमो नमः ॥ ४॥ वाहनं वृषभो यस्य वासुकिः कण्ठभूषणम्
॥ शिवषडक्षरस्तोत्रम् ॥ Read More »
॥ ॐ ॥ पशुपतीन्दुपतिं धरणीपतिंभुजगलोकपतिं च सतीपतिम्।प्रणतभक्तजनार्तिहरं परंभजत रे मनुजा गिरिजापतिम्॥१॥ न जनको जननी न च सोदरःन तनयो न च भूरिबलं कुलम्।अवति कोऽपि न कालवशं गतंभजत रे मनुजा गिरिजापतिम्॥२॥ मुरजडिण्डिमवाद्यविलक्षणंमधुरपञ्चमनादविशारदम्।प्रमथभूतगणैरपि सेवितंभजत रे मनुजा गिरिजापतिम्॥३॥ शरणदं सुखदं शरणान्वितंशिव शिवेति शिवेति नतं नृणाम्।अभयदं करुणावरुणालयंभजत रे मनुजा गिरिजापतिम्॥४॥ नरशिरोरचितं मणिकुण्डलंभुजगहारयुतं वृषभध्वजम्।चितिरजोधवलीकृतविग्रहंभजत रे मनुजा गिरिजापतिम्॥५॥ मखविनाशकरं शशिशेखरंसततमध्वरयाजिफलप्रदम्।प्रलयदग्धसुरासुरमानवंभजत रे मनुजा
॥ ॐ ॥ ॥ ॐ नमो भगवते भैरवाय ॥ अथ भैरवस्तवः व्याप्तचराचरभावविशेषंचिन्मयमेकमनन्तमनादिम्।भैरवनाथमनाथशरण्यंत्वन्मयचित्तया हृदि वन्दे॥१॥ त्वन्मयमेतदशेषमिदानींभाति मम त्वदनुग्रहशक्त्या।त्वं च महेश सदैव ममात्मास्वात्ममयं मम तेन समस्तम्॥२॥ स्वात्मनि विश्वगते त्वयि नाथेतेन न संसृतिभीतिः कथास्ति।स्वप्नेऽपि दुर्धरदुःखविमोह-त्रासविधायिषु कर्मगणेषु॥३॥ अन्तक! मां प्रति मा द्रुह्येनाःक्रोधकरालतमा विदधीहि।शङ्करसेवनचिन्तनधीरःभीषणभैरवशक्तिमयोऽस्मि॥४॥ इत्थमुपोढभवन्मयसंविद्-दीधितिदारितभूरितमिस्रः।मृत्युयमान्तककर्मपिशाचैःनाथ! नमोऽस्तु न जातु बिभेमि॥५॥ प्रोदितसत्यविबोधमरीचि-प्रोक्षितविश्वपदार्थतत्त्वः।भावपरामृतनिर्भरपूर्णेत्वय्यहमात्मनि निर्वृतिमेमि॥६॥ मानसगोचरमेति यदैवक्लेशदशातनुतापविधात्री।नाथ! तदैव मम त्वदभेद-स्तोत्रपरामृतवृष्टिरुदेति॥७॥ शङ्कर! सत्यमिदं व्रतदान-स्नानतपोभवतापविनाशि।तावकशास्त्रपरामृतचिन्तास्यन्दति चेतसि