श्रीपशुपत्यष्टकम्

॥ ॐ ॥

पशुपतीन्दुपतिं धरणीपतिं
भुजगलोकपतिं च सतीपतिम्।
प्रणतभक्तजनार्तिहरं परं
भजत रे मनुजा गिरिजापतिम्॥१॥

न जनको जननी न च सोदरः
न तनयो न च भूरिबलं कुलम्।
अवति कोऽपि न कालवशं गतं
भजत रे मनुजा गिरिजापतिम्॥२॥

मुरजडिण्डिमवाद्यविलक्षणं
मधुरपञ्चमनादविशारदम्।
प्रमथभूतगणैरपि सेवितं
भजत रे मनुजा गिरिजापतिम्॥३॥

शरणदं सुखदं शरणान्वितं
शिव शिवेति शिवेति नतं नृणाम्।
अभयदं करुणावरुणालयं
भजत रे मनुजा गिरिजापतिम्॥४॥

नरशिरोरचितं मणिकुण्डलं
भुजगहारयुतं वृषभध्वजम्।
चितिरजोधवलीकृतविग्रहं
भजत रे मनुजा गिरिजापतिम्॥५॥

मखविनाशकरं शशिशेखरं
सततमध्वरयाजिफलप्रदम्।
प्रलयदग्धसुरासुरमानवं
भजत रे मनुजा गिरिजापतिम्॥६॥

मदमपास्य चिरं हृदि संस्थितं
मरणजन्मजरामयपीडितम्।
जगदुदीक्ष्य समीपभयाकुलं
भजत रे मनुजा गिरिजापतिम्॥७॥

हरिविरिञ्चिसुराधिपपूजितं
यमजनेशधनेशनमस्कृतम्।
त्रिनयनं भुवनत्रयाधिपं
भजत रे मनुजा गिरिजापतिम्॥८॥

पशुपतेरिदमष्टकमद्भुतं
विरचितं पृथिवीपतिसूरिणा।
पठति संस्मरति मनुजः सदा
शिवपुरीं वसते लभते मुदम्॥९॥

॥ इति श्रीपशुपत्यष्टकं सम्पूर्णम् ॥

Leave a Comment

Your email address will not be published. Required fields are marked *