श्रीशीतलाष्टकम्

माँ

॥ ॐ ॥ अस्य श्रीशीतलास्तोत्रस्य महादेव ऋषिः, अनुष्टुप् छन्दः, शीतला देवता, लक्ष्मीर्बीजं, भवानी शक्तिः, सर्वविस्फोटकनिवृत्त्यर्थे जपे विनियोगः ॥ ईश्वर उवाच । वन्देऽहं शीतलां देवीं रासभस्थां दिगम्बराम् ।मार्जनीकलशोपेतां शूर्पालङ्कृतमस्तकाम् ॥ १ ॥ वन्देऽहं शीतलां देवीं सर्वरोगभयापहाम् ।यामासाद्य निवर्तेत विस्फोटकभयं महत् ॥ २ ॥ शीतले शीतले चेति यो ब्रूयाद्दाहपीडितः ।विस्फोटकभयं घोरं क्षिप्रं तस्य प्रणश्यति ॥ ३ ॥ […]

श्रीशीतलाष्टकम् Read More »

श्रीगङ्गापञ्चकम्

माँ

॥ ॐ ॥ देवि सुरेश्वरि भगवति गङ्गेत्रिभुवनतारिणि तरलतरङ्गे।शङ्करमौलिविहारिणि विमलेमम मतिरास्तां तव पदकमले॥१॥ भागीरथिसुखदायिनि मातःतव जलमहिमा निगमे ख्यातः।नाहं जाने तव महिमानंपाहि कृपामयि मामज्ञानम्॥२॥ हरिपदपाद्यतरङ्गिणि गङ्गेहिमविधुमुक्ताधवलतरङ्गे।दूरीकुरु मम दुष्कृतिभारंकुरु कृपया भवसागरपारम्॥३॥ तव जलममलं येन निपीतंपरमपदं खलु तेन गृहीतम्।मातर् गङ्गे त्वयि यो भक्तःकिल तं द्रष्टुं न यमः शक्तः॥४॥ पतितोद्धारिणि जाह्नवि गङ्गेखण्डितगिरिवरमण्डितभङ्गे।मुनिवरकन्ये नरकनिवारिणित्रिभुवनधन्ये पावनकारिणि॥५॥ ॥ इति श्रीगङ्गापञ्चकम् ॥

श्रीगङ्गापञ्चकम् Read More »

श्रीनर्मदापञ्चकम्

माँ

॥ ॐ ॥ स॒बिन्दुसिन्धुसुस्खलत्तरङ्गभङ्गरञ्जितंद्विषत्सु पापजातजातकारिवारिसंयुतम्।कृतान्तदूतकालभूतभीतिहारि वर्मदेत्वदीयपादपङ्कजं नमामि देवि नर्मदे॥१॥ त्वदम्बुलीनदीनमीनदिव्यसम्प्रदायकंकलौ मलौघभारहारि सर्वतीर्थनायकम्।सुमच्छकच्छनक्रचक्रवाकशर्मदायकंत्वदीयपादपङ्कजं नमामि देवि नर्मदे॥२॥ महागभीरनीरपूरपापधूतभूतलंध्वनत्समस्तपातकारिदारितापदाचलम्।जगल्लये महाभये मृकण्डुसूनुहर्म्यदेत्वदीयपादपङ्कजं नमामि देवि नर्मदे॥३॥ गतं तदैव मे भयं त्वदम्बुवीक्षितं यदामृकण्डुसूनुशौनकासुरारिसेवितं सदा।पुनर्भवाब्धिजन्मजं भवाब्धिदुःखवर्मदेत्वदीयपादपङ्कजं नमामि देवि नर्मदे॥४॥ अलक्ष्यलक्षकिन्नरामरासुरादिपूजितंसुलक्षनीरतीरधीरपक्षिलक्षितम्।वसिष्ठशिष्टपिप्पलादिकर्दमादिशर्मदेत्वदीयपादपङ्कजं नमामि देवि नर्मदे॥५॥ इदं तु नर्मदाष्टकं त्रिकालमेव ये सदापठन्ति ते निरन्तरं न यान्ति दुर्गतिं कदा।सुलभ्यदेहदुर्लभं महेशधाम गौरवंपुनर्भवा नरा न वै विलोकयन्ति रौरवम्॥६॥

श्रीनर्मदापञ्चकम् Read More »

श्रीगुरुपादुकापञ्चकम्

गुरुदेव

॥ ॐ ॥ नमो गुरुभ्यो गुरुपादुकाभ्यः।नमः परेभ्यः परपादुकाभ्यः॥आचार्यसिद्धेश्वरपादुकाभ्योनमोऽस्तु लक्ष्मीपतिपादुकाभ्यः॥१॥ कामादिसर्पव्रजगारुडाभ्यांविवेकवैराग्यनिधिप्रदाभ्याम्।बोधप्रदाभ्यां द्रुतमोक्षदाभ्यांनमो नमः श्रीगुरुपादुकाभ्याम्॥२॥ अनन्तसंसारसमुद्रतार-नौकायिताभ्यां स्थिरभक्तिदाभ्याम्।जाड्याब्धिसंशोषणवाडवाभ्यांनमो नमः श्रीगुरुपादुकाभ्याम्॥३॥ ॐकारह्रींकाररहस्ययुक्त-श्रींकारगूढार्थमहाविभूत्या।ॐकारमर्मप्रतिपादिनीभ्यांनमो नमः श्रीगुरुपादुकाभ्याम्॥४॥ होत्राग्निहोत्राग्निहविष्यहोतृ-होमादिसर्वाकृतिभासमानम्।यद् ब्रह्म तद्वो ध्रुवतारिणीभ्यांनमो नमः श्रीगुरुपादुकाभ्याम्॥५॥

श्रीगुरुपादुकापञ्चकम् Read More »

गुरु स्तवन

गुरुदेव

॥ ॐ ॥ गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः।गुरुः साक्षात् परब्रह्म तस्मै श्रीगुरवे नमः॥ ध्यानमूलं गुरुर्मूर्तिः पूजामूलं गुरोः पदम्।मन्त्रमूलं गुरोर्वाक्यं मोक्षमूलं गुरोः कृपा॥ अखण्डमण्डलाकारं व्याप्तं येन चराचरम्।तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः॥ त्वमेव माता च पिता त्वमेव।त्वमेव बन्धुश्च सखा त्वमेव।त्वमेव विद्या द्रविणं त्वमेव।त्वमेव सर्वं मम देव देव॥ ब्रह्मानन्दं परमसुखदं केवलं ज्ञानमूर्तिम्।द्वन्द्वातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम्॥ एकं नित्यं विमलमचलं सर्वधीसाक्षिभूतम्।भावातीतं

गुरु स्तवन Read More »

श्री सद्गुरुदेव के चरणकमलों का माहात्म्य

गुरुदेव

॥ ॐ ॥ सर्वश्रुतिशिरोरत्नविराजितपदाम्बुजम्।वेदान्तार्थप्रवक्तारं तस्मात्सम्पूजयेद्गुरुम्॥ देही ब्रह्म भवेद्यस्मात्त्वत्कृपार्थं वदामि तत्।सर्वपापविशुद्धात्मा श्रीगुरोः पादसेवनात्॥ शोषणं पापपङ्कस्य दीपनं ज्ञानतेजसः।गुरोः पादोदकं सम्यक् संसारार्णवतारकम्॥ अज्ञानमूलहरणं जन्मकर्मनिवारणम्।ज्ञानवैराग्यसिद्ध्यर्थं गुरुपादोदकं पिबेत्॥ काशीक्षेत्रं निवासश्च जाह्नवी चरणोदकम्।गुरुर्विश्वेश्वरः साक्षात् तारकं ब्रह्मनिश्चयः॥ गुरुसेवा गया प्रोक्ता देहः स्यादक्षयो वटः।तत्पादं विष्णुपादं स्यात्तत्र दत्तमनस्ततम्॥ सप्तसागरपर्यन्तं तीर्थस्नानफलं तु यत्।गुरुपादपयोबिन्दोः सहस्रांशेन तत्फलम्॥ दृश्यविस्मृतिपर्यन्तं कुर्याद्गुरुपदार्चनम्।तादृशस्यैव कैवल्यं न च तद्व्यतिरेकिणः॥ पादुकासनशय्यादि गुरुणा यदभीष्टितम्।नमस्कुर्वीत तत्सर्वं

श्री सद्गुरुदेव के चरणकमलों का माहात्म्य Read More »

गुरु स्तवन

गुरुदेव

॥ ॐ ॥ गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः | गुरुर्साक्षात परब्रह्म तस्मै श्री गुरवे नमः || ध्यानमूलं गुरुर्मूर्ति पूजामूलं गुरोः पदम् | मंत्रमूलं गुरोर्वाक्यं मोक्षमूलं गुरोः कृपा || अखंडमंडलाकारं व्याप्तं येन चराचरम् | तत्पदं दर्शितं येन तस्मै श्री गुरवे नमः || त्वमेव माता च पिता त्वमेव, त्वमेव बंधुश्च सखा त्वमेव | त्वमेव विद्या द्रविणं त्वमेव, त्वमेव

गुरु स्तवन Read More »

श्री गुरु पादुका पंचकम्

गुरुदेव

॥ ॐ ॥ ॐ नमो गुरुभ्यो गुरुपादुकाभ्यों | नमः परेभ्यः परपादुकाभ्यः || आचार्य सिध्देश्वर पादुकाभ्यों नमोस्तु लक्ष्मीपति पादुकाभ्यः ||1|| कामादि सर्प व्रजगारुडाभ्यां | विवेक वैराग्य निधि प्रदाभ्यां || बोध प्रदाभ्यां द्रुत मोक्षदाभ्यां | नमो नमः श्री गुरु पादुकाभ्यां ||2|| अनंत संसार समुद्रतार, नौकायिताभ्यां स्थिर भक्तिदाभ्यां | जाक्याब्धि संशोषण बाड़याभ्यां, नमो नमः श्री गुरु पादुकाभ्यां ||3||    

श्री गुरु पादुका पंचकम् Read More »

श्री स्वामी समर्थ स्तवन

गुरुदेव

॥ ॐ ॥ नाही जन्म नाही नाम।नाही कुणी माता पिता।प्रगटला अद्भुतसा।ब्रह्मांडाचा हाच पिता॥१॥ नाही कुणी गुरुवर।स्वये हाच सूत्रधार।नवनाथी आदिनाथ।अनाथांचा जगन्नाथ॥२॥ नरदेही नरसिंह।प्रगटला तरुपोटी।नास्तिकाच्या कश्यपूला।आस्तिकाची देण्यागती॥३॥ कधी चाले पाण्यावरी।कधी धावे अधान्तरी।यमा वाटे ज्याची भीती।योगेश्वर हाच यती॥४॥ कधी जाई हिमाचली।कधी गिरी अरवली।भक्तासाठी धावून जाई।अक्कलकोटी कैवारी॥५॥ अगाध हे चरित्र त्याचे।वर्णावया कोण सांगे।शरणागत भावे जो भजे।संकट त्याचे पळे लांबो॥६॥

श्री स्वामी समर्थ स्तवन Read More »