श्रीगुरुपादुकापञ्चकम्

॥ ॐ ॥

नमो गुरुभ्यो गुरुपादुकाभ्यः।
नमः परेभ्यः परपादुकाभ्यः॥
आचार्यसिद्धेश्वरपादुकाभ्यो
नमोऽस्तु लक्ष्मीपतिपादुकाभ्यः॥१॥

कामादिसर्पव्रजगारुडाभ्यां
विवेकवैराग्यनिधिप्रदाभ्याम्।
बोधप्रदाभ्यां द्रुतमोक्षदाभ्यां
नमो नमः श्रीगुरुपादुकाभ्याम्॥२॥

अनन्तसंसारसमुद्रतार-
नौकायिताभ्यां स्थिरभक्तिदाभ्याम्।
जाड्याब्धिसंशोषणवाडवाभ्यां
नमो नमः श्रीगुरुपादुकाभ्याम्॥३॥

ॐकारह्रींकाररहस्ययुक्त-
श्रींकारगूढार्थमहाविभूत्या।
ॐकारमर्मप्रतिपादिनीभ्यां
नमो नमः श्रीगुरुपादुकाभ्याम्॥४॥

होत्राग्निहोत्राग्निहविष्यहोतृ-
होमादिसर्वाकृतिभासमानम्।
यद् ब्रह्म तद्वो ध्रुवतारिणीभ्यां
नमो नमः श्रीगुरुपादुकाभ्याम्॥५॥

Leave a Comment

Your email address will not be published. Required fields are marked *