श्रीगुरुपादुकापञ्चकम्
गुरुदेव॥ ॐ ॥ नमो गुरुभ्यो गुरुपादुकाभ्यः।नमः परेभ्यः परपादुकाभ्यः॥आचार्यसिद्धेश्वरपादुकाभ्योनमोऽस्तु लक्ष्मीपतिपादुकाभ्यः॥१॥ कामादिसर्पव्रजगारुडाभ्यांविवेकवैराग्यनिधिप्रदाभ्याम्।बोधप्रदाभ्यां द्रुतमोक्षदाभ्यांनमो नमः श्रीगुरुपादुकाभ्याम्॥२॥ अनन्तसंसारसमुद्रतार-नौकायिताभ्यां स्थिरभक्तिदाभ्याम्।जाड्याब्धिसंशोषणवाडवाभ्यांनमो नमः श्रीगुरुपादुकाभ्याम्॥३॥ ॐकारह्रींकाररहस्ययुक्त-श्रींकारगूढार्थमहाविभूत्या।ॐकारमर्मप्रतिपादिनीभ्यांनमो नमः श्रीगुरुपादुकाभ्याम्॥४॥ होत्राग्निहोत्राग्निहविष्यहोतृ-होमादिसर्वाकृतिभासमानम्।यद् ब्रह्म तद्वो ध्रुवतारिणीभ्यांनमो नमः श्रीगुरुपादुकाभ्याम्॥५॥
श्रीगुरुपादुकापञ्चकम् Read More »
