॥ ॐ ॥
सर्वश्रुतिशिरोरत्नविराजितपदाम्बुजम्।
वेदान्तार्थप्रवक्तारं तस्मात्सम्पूजयेद्गुरुम्॥
देही ब्रह्म भवेद्यस्मात्त्वत्कृपार्थं वदामि तत्।
सर्वपापविशुद्धात्मा श्रीगुरोः पादसेवनात्॥
शोषणं पापपङ्कस्य दीपनं ज्ञानतेजसः।
गुरोः पादोदकं सम्यक् संसारार्णवतारकम्॥
अज्ञानमूलहरणं जन्मकर्मनिवारणम्।
ज्ञानवैराग्यसिद्ध्यर्थं गुरुपादोदकं पिबेत्॥
काशीक्षेत्रं निवासश्च जाह्नवी चरणोदकम्।
गुरुर्विश्वेश्वरः साक्षात् तारकं ब्रह्मनिश्चयः॥
गुरुसेवा गया प्रोक्ता देहः स्यादक्षयो वटः।
तत्पादं विष्णुपादं स्यात्तत्र दत्तमनस्ततम्॥
सप्तसागरपर्यन्तं तीर्थस्नानफलं तु यत्।
गुरुपादपयोबिन्दोः सहस्रांशेन तत्फलम्॥
दृश्यविस्मृतिपर्यन्तं कुर्याद्गुरुपदार्चनम्।
तादृशस्यैव कैवल्यं न च तद्व्यतिरेकिणः॥
पादुकासनशय्यादि गुरुणा यदभीष्टितम्।
नमस्कुर्वीत तत्सर्वं पादाभ्यां न स्पृशेत्क्वचित्॥
विजानन्ति महावाक्यं गुरोश्चरणसेवया।
ते वै संन्यासिनः प्रोक्ता इतरे वेषधारिणः॥
चार्वाकवैष्णवमते सुखं प्राभाकरे न हि।
गुरोः पादान्तिके यद्वत्सुखं वेदान्तसम्मतम्॥
गुरुभावः परं तीर्थमन्यतीर्थं निरर्थकम्।
सर्वतीर्थमयं देवि श्रीगुरोश्चरणाम्बुजम्॥
सर्वतीर्थावगाहस्य सम्प्राप्नोति फलं नरः।
गुरोः पादोदकं पीत्वा शेषं शिरसि धारयन्॥
गुरुपादोदकं पानं गुरोरुच्छिष्टभोजनम्।
गुरुमूर्तेः सदा ध्यानं गुरोर्नाम्नः सदा जपः॥
यस्य प्रसादादहमेव सर्वं मय्येव सर्वं परिकल्पितं च।
इत्थं विजानामि सदात्मरूपं तस्याङ्घ्रिपद्मं प्रणतोऽस्मि नित्यम्॥
आकल्पजन्मकोटीनां यज्ञव्रततपःक्रियाः।
ताः सर्वाः सफला देवि गुरुसन्तोषमात्रतः॥
कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वा प्रकृतेः स्वभावात्।
करोमि यद्यत्सकलं परस्मै नारायणायेति समर्पयामि॥
