॥ ॐ ॥
श्रीपादश्रीवल्लभ त्वं सदैव ।
श्रीदत्तास्मान् पाहि देवाधिदेव ।
भावग्राह्य क्लेशहारिन् सुकीर्ते ।
घोरात्कष्टादुद्धरास्मान्नमस्ते ॥१॥
त्वं नो माता त्वं पिताऽप्तोऽधिपस्त्वं ।
त्राता योगक्षेमकृत् सद्गुरुस्त्वम् ।
त्वं सर्वस्वं नो प्रभो विश्वमूर्ते ।
घोरात्कष्टादुद्धरास्मान्नमस्ते ॥२॥
पापं तापं व्याधिमाधिं च दैन्यं ।
भीतिं क्लेशं त्वं हराशु त्वदन्यम् ।
त्रातारं नो वीक्ष ईशास्त्रमूर्ते ।
घोरात्कष्टादुद्धरास्मान्नमस्ते ॥३॥
नान्यस्त्राता नापि दाता न भर्ता ।
त्वत्तो देव त्वं शरण्योऽखिलहर्ता ।
कुर्वात्रेयानुग्रहं पूर्णराते ।
घोरात्कष्टादुद्धरास्मान्नमस्ते ॥४॥
धर्मे प्रीतिं सन्मतिं देवभक्तिं ।
सत्सङ्गाप्तिं देहि भुक्तिं च मुक्तिम् ।
भावासक्तिं चाखिलानन्दमूर्ते ।
घोरात्कष्टादुद्धरास्मान्नमस्ते ॥५॥
॥ श्लोकपञ्चकमेतद्यो लोकमङ्गलवर्धनम् ।
प्रपठेन्नियतो भक्त्या स श्रीदत्तप्रियो भवेत् ॥
श्रीवासुदेवानन्दसरस्वतीस्वामिविरचितं घोरकष्टोद्धरणस्तोत्रम्
॥ श्रीपादराजं शरणं प्रपद्ये ॥
