श्रीभैरवस्तवः

॥ ॐ ॥

॥ ॐ नमो भगवते भैरवाय ॥

अथ भैरवस्तवः

व्याप्तचराचरभावविशेषं
चिन्मयमेकमनन्तमनादिम्।
भैरवनाथमनाथशरण्यं
त्वन्मयचित्तया हृदि वन्दे॥१॥

त्वन्मयमेतदशेषमिदानीं
भाति मम त्वदनुग्रहशक्त्या।
त्वं च महेश सदैव ममात्मा
स्वात्ममयं मम तेन समस्तम्॥२॥

स्वात्मनि विश्वगते त्वयि नाथे
तेन न संसृतिभीतिः कथास्ति।
स्वप्नेऽपि दुर्धरदुःखविमोह-
त्रासविधायिषु कर्मगणेषु॥३॥

अन्तक! मां प्रति मा द्रुह्येनाः
क्रोधकरालतमा विदधीहि।
शङ्करसेवनचिन्तनधीरः
भीषणभैरवशक्तिमयोऽस्मि॥४॥

इत्थमुपोढभवन्मयसंविद्-
दीधितिदारितभूरितमिस्रः।
मृत्युयमान्तककर्मपिशाचैः
नाथ! नमोऽस्तु न जातु बिभेमि॥५॥

प्रोदितसत्यविबोधमरीचि-
प्रोक्षितविश्वपदार्थतत्त्वः।
भावपरामृतनिर्भरपूर्णे
त्वय्यहमात्मनि निर्वृतिमेमि॥६॥

मानसगोचरमेति यदैव
क्लेशदशातनुतापविधात्री।
नाथ! तदैव मम त्वदभेद-
स्तोत्रपरामृतवृष्टिरुदेति॥७॥

शङ्कर! सत्यमिदं व्रतदान-
स्नानतपोभवतापविनाशि।
तावकशास्त्रपरामृतचिन्ता
स्यन्दति चेतसि निर्वृतिधारा॥८॥

नृत्यति गायति हृष्यति गाढं
संवदति इयं मम भैरवनाथ।
त्वां प्रियमाप्य सुदर्शनमेकं
दुर्लभमन्यजनैः समयज्ञम्॥९॥

वसुरसपौषे कृष्णदशम्याम्
अभिनवगुप्तः स्तवमिममकरोत्।
येन विभुर्भवमरुसन्तापं
शमयति झटिति जनस्य दयालुः॥१०॥

॥ इति श्रीमहामहेश्वराचार्याभिनवगुप्तपादविरचितः श्रीभैरवस्तवः सम्पूर्णः ॥

॥ भैरवार्पणमस्तु ॥

Leave a Comment

Your email address will not be published. Required fields are marked *