॥ ॐ ॥
कृपासमुद्रं सुमुखं त्रिनेत्रं
जटाधरं पार्वतीवामभागम्।
सदाशिवं रुद्रमनन्तरूपं
चिदम्बरेशं हृदि भावयामि॥१॥
वाचामतीतं फणिभूषणाङ्गं
गणेशतातं धनदस्य मित्रम्।
कन्दर्पनाशं कमलोत्पलाक्षं
चिदम्बरेशं हृदि भावयामि॥२॥
रमेशवन्द्यं रजताद्रिनाथं
श्रीवामदेवं भवदुःखनाशम्।
रक्षाकरं राक्षसपीडितानां
चिदम्बरेशं हृदि भावयामि॥३॥
देवादिदेवं जगदेकनाथं
देवेशवन्द्यं शशिखण्डचूडम्।
गौरीसमेतं कृतविघ्नदक्षं
चिदम्बरेशं हृदि भावयामि॥४॥
वेदान्तवेद्यं सुरवैरिविघ्नं
शुभप्रदं भक्तिमतान्तराणाम्।
कालात्मकं श्रीकरुणाकटाक्षं
चिदम्बरेशं हृदि भावयामि॥५॥
हेमाद्रिचापं त्रिगुणात्मभावं
गुहात्मजं व्याघ्रपुरीशमाद्यम्।
श्मशानवासं वृषवाहनस्थं
चिदम्बरेशं हृदि भावयामि॥६॥
आद्यन्तशून्यं त्रिपुरारिमीशं
नन्दीशमुख्यस्तुतिवैभवाढ्यम्।
समस्तदेवैः परिपूजिताङ्घ्रिं
चिदम्बरेशं हृदि भावयामि॥७॥
तमेव भान्तं ह्यनुभाति सर्वं
अनेकरूपं परमार्थमेकम्।
पिनाकपाणिं भवनाशहेतुं
चिदम्बरेशं हृदि भावयामि॥८॥
विश्वेश्वरं नित्यमनन्तमाद्यं
त्रिलोचनं चन्द्रकलावतंसम्।
पतिं पशूनां हृदि सन्निविष्टं
चिदम्बरेशं हृदि भावयामि॥९॥
विश्वाधिकं विष्णुमुखैरुपास्यं
त्रिलोचनं पञ्चमुखं प्रसन्नम्।
उमापतिं पापहरं प्रशान्तं
चिदम्बरेशं हृदि भावयामि॥१०॥
