शिव

काल भैरव अष्टक

शिव

॥ ॐ ॥ देवराजसेव्यमानपावनांघ्रिपङ्कजं व्यालयज्ञसूत्रमिन्दुशेखरं कृपाकरम् । नारदादियोगिवृन्दवन्दितं दिगंबरं काशिकापुराधिनाथकालभैरवं भजे ॥ १॥ भानुकोटिभास्वरं भवाब्धितारकं परं नीलकण्ठमीप्सितार्थदायकं त्रिलोचनम् । कालकालमंबुजाक्षमक्षशूलमक्षरं काशिकापुराधिनाथकालभैरवं भजे ॥ २॥ शूलटंकपाशदण्डपाणिमादिकारणं श्यामकायमादिदेवमक्षरं निरामयम् । भीमविक्रमं प्रभुं विचित्रताण्डवप्रियं काशिकापुराधिनाथकालभैरवं भजे ॥ ३॥ भुक्तिमुक्तिदायकं प्रशस्तचारुविग्रहं भक्तवत्सलं स्थितं समस्तलोकविग्रहम् । विनिक्वणन्मनोज्ञहेमकिङ्किणीलसत्कटिं काशिकापुराधिनाथकालभैरवं भजे॥ ४॥ धर्मसेतुपालकं त्वधर्ममार्गनाशनं कर्मपाशमोचकं सुशर्मधायकं विभुम् । स्वर्णवर्णशेषपाशशोभितांगमण्डलं काशिकापुराधिनाथकालभैरवं भजे ॥ […]

काल भैरव अष्टक Read More »

श्रीकाशीविश्वनाथाष्टकम् ॥

शिव

॥ ॐ ॥ गङ्गातरङ्गरमणीयजटाकलापंगौरीनिरन्तरविभूषितवामभागम्।नारायणप्रियमनङ्गमदापहारंवाराणसीपुरपतिं भज विश्वनाथम्॥१॥ वाचामगोचरमनेकगुणस्वरूपंवागीशविष्णुसुरसेवितपादपीठम्।वामेन विग्रहवरेण कलत्रवन्तंवाराणसीपुरपतिं भज विश्वनाथम्॥२॥ भूताधिपं भुजगभूषणभूषिताङ्गंव्याघ्राजिनाम्बरधरं जटिलं त्रिनेत्रम्।पाशाङ्कुशाभयवरप्रदशूलपाणिंवाराणसीपुरपतिं भज विश्वनाथम्॥३॥ शीतांशुशोभितकिरीटविराजमानंभालेक्षणानलविशोषितपञ्चबाणम्।नागाधिपारचितभासुरकर्णपूरंवाराणसीपुरपतिं भज विश्वनाथम्॥४॥ पञ्चाननं दुरितमत्तमतङ्गजानांनागान्तकं दनुजपुङ्गवपन्नगानाम्।दावानलं मरणशोकजराटवीनांवाराणसीपुरपतिं भज विश्वनाथम्॥५॥ तेजोमयं सगुणनिर्गुणमद्वितीयंआनन्दकन्दमपराजितमप्रमेयम्।नागात्मकं सकलनिष्कलमात्मरूपंवाराणसीपुरपतिं भज विश्वनाथम्॥६॥ रागादिदोषरहितं स्वजनानुरागंवैराग्यशान्तिनिलयं गिरिजासहायम्।माधुर्यधैर्यसुभगं गरलाभिरामंवाराणसीपुरपतिं भज विश्वनाथम्॥७॥ आशां विहाय परिहृत्य परस्य निन्दांपापे रतिं च सुविनिवार्य मनः समाधौ।आदाय हृत्कमलमध्यगतं परेशंवाराणसीपुरपतिं भज विश्वनाथम्॥८॥ फलश्रुतिः वाराणसीपुरपतेः स्तवनं शिवस्यव्याख्यातमष्टकमिदं

श्रीकाशीविश्वनाथाष्टकम् ॥ Read More »

॥ श्रीशिवपञ्चाक्षरस्तोत्रम् ॥

शिव

॥ ॐ ॥ नागेन्द्रहाराय त्रिलोचनायभस्माङ्गरागाय महेश्वराय।नित्याय शुद्धाय दिगम्बरायतस्मै नकाराय नमः शिवाय॥१॥ मन्दाकिनीसलिलचन्दनचर्चितायनन्दीश्वरप्रमथनाथमहेश्वराय।मन्दारपुष्पबहुपुष्पसुपूजितायतस्मै मकाराय नमः शिवाय॥२॥ शिवाय गौरीवदनाब्जवृन्द-सूर्याय दक्षाध्वरनाशकाय।श्रीनीलकण्ठाय वृषध्वजायतस्मै शिकाराय नमः शिवाय॥३॥ वसिष्ठकुम्भोद्भवगौतमार्य-मुनीन्द्रदेवार्चितशेखराय।चन्द्रार्कवैश्वानरलोचनायतस्मै वकाराय नमः शिवाय॥४॥ यक्षस्वरूपाय जटाधरायपिनाकहस्ताय सनातनाय।दिव्याय देवाय दिगम्बरायतस्मै यकाराय नमः शिवाय॥५॥ ॥ फलश्रुतिः ॥ पञ्चाक्षरमिदं पुण्यं यः पठेच्छिवसन्निधौ।शिवलोकमवाप्नोति शिवेन सह मोदते॥ ॥ इति श्रीशिवपञ्चाक्षरस्तोत्रं सम्पूर्णम् ॥

॥ श्रीशिवपञ्चाक्षरस्तोत्रम् ॥ Read More »