॥ बटुकभैरवकवचम् ॥

 ॥ ॐ ॥

महादेव उवाच –

प्रीयतां भैरवो देवो नमो वै भैरवाय च ।
देवेशि देहरक्षार्थं कारणं कथ्यतां ध्रुवम् ॥ १ ॥

म्रियन्ते साधका येन विना श्मशानभूमिषु ।
रणेषु चातिघोरेषु महामृत्युभयेषु च ॥ २ ॥

शृङ्गीसलीलवज्रेषु ज्वरादिव्याधिवह्निषु ।

देव्युवाच –

कथयामि शृणु प्राज्ञ बटुककवचं शुभम् ॥ ३ ॥

गोपनीयं प्रयत्नेन मातृकाजारजो यथा ।
ॐ अस्य श्रीबटुकभैरवकवचस्य
आनन्दभैरव ऋषिः । त्रिष्टुप् छन्दः ।
श्रीबटुकभैरवो देवता ।
बं बीजम् । ह्रीं शक्तिः ।

ॐ बटुकायेति कीलकम् । ममाभीष्टसिद्ध्यर्थे जपे विनियोगः ।

ॐ सहस्रारे महाचक्रे कर्पूरधवले गुरुः ॥ ४ ॥

पातु मां बटुको देवो भैरवः सर्वकर्मसु ।
पूर्वस्यामसिताङ्गो मां दिशि रक्षतु सर्वदा ॥ ५ ॥

आग्नेयां च रुरुः पातु दक्षिणे चण्डभैरवः ।
नैऋत्यां क्रोधनः पातु उन्मत्तः पातु पश्चिमे ॥ ६ ॥

वायव्यां मां कपाली च नित्यं पायात् सुरेश्वरः ।
भीषणो भैरवः पातु उत्तरस्यां तु सर्वदा ॥ ७ ॥

संहारभैरवः पायादीशान्यां च महेश्वरः ।
ऊर्ध्वं पातु विधाता च पाताले नन्दको विभुः ॥ ८ ॥

सद्योजातस्तु मां पायात् सर्वतो देवसेवितः ।
वामदेवो वनान्ते च वने घोरस्तथाऽवतु ॥ ९ ॥

जले तत्पुरुषः पातु स्थले ईशान एव च ।
डाकिनीपुत्रकः पातु पुत्रान् मे सर्वतः प्रभुः ॥ १० ॥

हाकिनीपुत्रकः पातु दारान् तुलाकिनीसुतः ।
पातु शाकिनीकापुत्रः सैन्यं वै कालभैरवः ॥ ११ ॥

मालिनीपुत्रकः पातु पशूनश्वान् गजांस्तथा ।
महाकालोऽवतु क्षेत्रं श्रियं मे सर्वतो गिरा ॥ १२ ॥

वाद्यं वाद्यप्रियः पातु भैरवो नित्यसम्पदा ।
एतत्कवचमीशान तव स्नेहात् प्रकाशितम् ॥ १३ ॥

नाख्येयं नरलोकेषु सारभूतं सुरप्रियम् ।
यस्मै कस्मै न दातव्यं कवचं सुरदुर्लभम् ॥ १४ ॥

न देयं परशिष्येभ्यो कृपणेभ्यश्च शङ्कर ।
यो ददाति निषिद्धेभ्यः सर्वभ्रष्टो भवेत् किल ॥ १५ ॥

अनेन कवचेनैव रक्षां कृत्वा विचक्षणः ।
विचरन् यत्र कुत्रापि न विघ्नैः परिभूयते ॥ १६ ॥

मन्त्रेण रक्षते योगी कवचं रक्षकं यतः ।
तस्मात् सर्वप्रयत्नेन दुर्लभं पापचेतसाम् ॥ १७ ॥

भूर्जे रम्भात्वचि वापि लिखित्वा विधिवत् प्रभो ।
कुङ्कुमेनाष्टगन्धेन गोरोचनैश्च केसरैः ॥ १८ ॥

धारयेत् पाठयेद्वापि सम्पठेद्वापि नित्यशः ।
सम्प्राप्नोति फलं सर्वं नात्र कार्या विचारणा ॥ १९ ॥

सततं पठ्यते यत्र तत्र भैरवसंस्थितिः ।
न शक्नोमि प्रभावं वै कवचस्यास्य वर्णितुम् ॥ २० ॥

नमो भैरवदेवाय सर्वभूताय वै नमः ।
नमस्त्रैलोक्यनाथाय नाथनाथाय वै नमः ॥ २१ ॥

इति श्रीहरिकृष्णविनिर्मिते बृहज्ज्योतिषार्णवे धर्मस्कन्धे उपासनास्तवके श्रीबटुकभैरवोपासनाध्याये भैरवतन्त्रे देवीरहस्योक्तं श्रीबटुकभैरवकवचं सम्पूर्णम् ।

Leave a Comment

Your email address will not be published. Required fields are marked *