श्रीशिवआह्वानमन्त्रः

॥ ॐ ॥

मृत्युञ्जय परेशान जगदाभयनाशन ।
तव ध्यानेन देवेश मृत्युं प्राप्नोति जीवति ॥ १॥

वन्दे ईशानदेवाय नमस्तस्मै पिनाकिने ।
आदिमध्यान्तरूपाय मृत्युनाशं करोतु मे ॥ २॥

नमस्तस्मै भगवते कैलासाचलवासिने ।
नमो ब्रह्मेन्द्ररूपाय मृत्युनाशं करोतु मे ॥ ३॥

त्र्यम्बकाय नमस्तुभ्यं पञ्चास्याय नमो नमः ।
नमो दोर्दण्डचापाय मम मृत्युं विनाशय ॥ ४॥

नमोऽर्धेन्दुस्वरूपाय नमो दिग्वसनाय च ।
नमो भक्तार्तिहन्त्रे च मम मृत्युं विनाशय ॥ ५॥

देवं मृत्युविनाशनं भयहरं साम्राज्यमुक्तिप्रदम् ।
नानाभूतगणान्वितं दिविपदैर्देवैः सदा सेवितम् ॥ ६॥

अज्ञानान्धकनाशनं शुभकरं विद्यासु सौख्यप्रदम् ।
सर्वसर्वपतिं महेश्वरहरं मृत्युञ्जयं भावये ॥ ७॥

॥ इति ॥

॥ ॐ श्री शिवआह्वानमन्त्रः सम्पूर्णम् ॥

Leave a Comment

Your email address will not be published. Required fields are marked *