शिव

श्रीचिदम्बराष्टकम्

शिव

 ॥ ॐ ॥ कृपासमुद्रं सुमुखं त्रिनेत्रंजटाधरं पार्वतीवामभागम्।सदाशिवं रुद्रमनन्तरूपंचिदम्बरेशं हृदि भावयामि॥१॥ वाचामतीतं फणिभूषणाङ्गंगणेशतातं धनदस्य मित्रम्।कन्दर्पनाशं कमलोत्पलाक्षंचिदम्बरेशं हृदि भावयामि॥२॥ रमेशवन्द्यं रजताद्रिनाथंश्रीवामदेवं भवदुःखनाशम्।रक्षाकरं राक्षसपीडितानांचिदम्बरेशं हृदि भावयामि॥३॥ देवादिदेवं जगदेकनाथंदेवेशवन्द्यं शशिखण्डचूडम्।गौरीसमेतं कृतविघ्नदक्षंचिदम्बरेशं हृदि भावयामि॥४॥ वेदान्तवेद्यं सुरवैरिविघ्नंशुभप्रदं भक्तिमतान्तराणाम्।कालात्मकं श्रीकरुणाकटाक्षंचिदम्बरेशं हृदि भावयामि॥५॥ हेमाद्रिचापं त्रिगुणात्मभावंगुहात्मजं व्याघ्रपुरीशमाद्यम्।श्मशानवासं वृषवाहनस्थंचिदम्बरेशं हृदि भावयामि॥६॥ आद्यन्तशून्यं त्रिपुरारिमीशंनन्दीशमुख्यस्तुतिवैभवाढ्यम्।समस्तदेवैः परिपूजिताङ्घ्रिंचिदम्बरेशं हृदि भावयामि॥७॥ तमेव भान्तं ह्यनुभाति सर्वंअनेकरूपं परमार्थमेकम्।पिनाकपाणिं भवनाशहेतुंचिदम्बरेशं हृदि भावयामि॥८॥ विश्वेश्वरं […]

श्रीचिदम्बराष्टकम् Read More »

॥ उमामहेश्वरस्तोत्रम् ॥

शिव

॥ ॐ ॥ ॥ श्रीगणेशाय नमः ॥ नमः शिवाभ्यां नवयौवनाभ्यांपरस्पराश्लिष्टवपुर्धराभ्याम्।नगेन्द्रकन्यावृषकेतनाभ्यांनमो नमः शङ्करपार्वतीभ्याम्॥१॥ नमः शिवाभ्यां सरसोत्सवाभ्यांनमस्कृताभीष्टवरप्रदाभ्याम्।नारायणेनार्चितपादुकाभ्यांनमो नमः शङ्करपार्वतीभ्याम्॥२॥ नमः शिवाभ्यां वृषवाहनाभ्यांविरिञ्चिविष्ण्विन्द्रसुपूजिताभ्याम्।विभूतिपाटीरविलेपनाभ्यांनमो नमः शङ्करपार्वतीभ्याम्॥३॥ नमः शिवाभ्यां जगदीश्वराभ्यांजगत्पतिभ्यां जयविग्रहाभ्याम्।जम्भारिमुख्यैरभिवन्दिताभ्यांनमो नमः शङ्करपार्वतीभ्याम्॥४॥ नमः शिवाभ्यां परमौषधाभ्यांपञ्चाक्षरीपञ्जररञ्जिताभ्याम्।प्रपञ्चसृष्टिस्थितिसंहृताभ्यांनमो नमः शङ्करपार्वतीभ्याम्॥५॥ नमः शिवाभ्यामतिसुन्दराभ्यांअत्यन्तमासक्तहृदम्बुजाभ्याम्।अशेषलोकैकहितङ्कराभ्यांनमो नमः शङ्करपार्वतीभ्याम्॥६॥ नमः शिवाभ्यां कलिनाशनाभ्यांकङ्कालकल्याणवपुर्धराभ्याम्।कैलासशैलस्थितदेवताभ्यांनमो नमः शङ्करपार्वतीभ्याम्॥७॥ नमः शिवाभ्यामशुभापहाभ्यांअशेषलोकैकविशेषिताभ्याम्।अकुण्ठिताभ्यां स्मृतिसम्भृताभ्यांनमो नमः शङ्करपार्वतीभ्याम्॥८॥ नमः शिवाभ्यां रथवाहनाभ्यांरवीन्दुवैश्वानरलोचनाभ्याम्।राकाशशाङ्काभमुखाम्बुजाभ्यांनमो नमः शङ्करपार्वतीभ्याम्॥९॥ नमः शिवाभ्यां जटिलन्धराभ्यांजरामृतिभ्यां

॥ उमामहेश्वरस्तोत्रम् ॥ Read More »

॥ श्रीचन्द्रशेखराष्टकम् ॥

शिव

॥ ॐ ॥ चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर पाहि माम्।चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर रक्ष माम्॥१॥ रत्नसानुशरासनं रजताद्रिशृङ्गनिकेतनंसिञ्जिनीकृतपन्नगेश्वरमच्युताननसायकम्।क्षिप्रदग्धपुरत्रयं त्रिदिवालयैरभिवन्दितंचन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः॥२॥ पञ्चपादपपुष्पगन्धिपदाम्बुजद्वयशोभितंभाललोचनजातपावकदग्धमन्मथविग्रहम्।भस्मदिग्धकलेवरं भवनाशनं भवमव्ययंचन्द्रशेखर चन्द्रशेखर चन्द्रशेखर रक्ष माम्॥३॥ मत्तवारणमुख्यचर्मकृतोत्तरीयमनोहरंपङ्कजासनपद्मलोचनपूजिताङ्घ्रिसरोरुहम्।देवसिन्धुतरङ्गसीकरसिक्तशुभ्रजटाधरंचन्द्रशेखर चन्द्रशेखर चन्द्रशेखर रक्ष माम्॥४॥ यक्षराजसखं भगाक्षहरं भुजङ्गविभूषणंशैलराजसुतापरिष्कृतचारुवामकलेवरम्।क्ष्वेलनीलगलं परश्वधधारिणं मृगधारिणंचन्द्रशेखर चन्द्रशेखर चन्द्रशेखर रक्ष माम्॥५॥ कुण्डलीकृतकुण्डलेश्वरकुण्डलं वृषवाहनंनारदादिमुनीश्वरस्तुतवैभवं भुवनेश्वरम्।अन्धकान्तकमाश्रितामरपादपं शमनान्तकंचन्द्रशेखर चन्द्रशेखर चन्द्रशेखर रक्ष माम्॥६॥ भेषजं भवरोगिणामखिलापदामपहारिणंदक्षयज्ञविनाशनं त्रिगुणात्मकं त्रिविलोचनम्।भुक्तिमुक्तिफलप्रदं सकलाघसङ्घनिबर्हणंचन्द्रशेखर चन्द्रशेखर

॥ श्रीचन्द्रशेखराष्टकम् ॥ Read More »

दारिद्र्यदहनशिवस्तोत्रम्

शिव

॥ ॐ ॥ विश्वेश्वराय नरकार्णवतारणायकर्णामृताय शशिशेखरधारणाय।कर्पूरकान्तिधवलाय जटाधराय।दारिद्र्यदुःखदहनाय नमः शिवाय॥१॥ गौरीप्रियाय रजनीशकलाधराय।कालान्तकाय भुजगाधिपकङ्कणाय।गङ्गाधराय गजराजविमर्दनाय।दारिद्र्यदुःखदहनाय नमः शिवाय॥२॥ भक्तिप्रियाय भवरोगभयापहाय।उग्राय दुर्गभवसागतारणाय।ज्योतिर्मयाय गुणनामसुनृत्यकाय।दारिद्र्यदुःखदहनाय नमः शिवाय॥३॥ चर्माम्बराय शवभस्मविलेपनाय।भालेक्षणाय मणिकुण्डलमण्डिताय।मञ्जीरपादयुगलाय जटाधराय।दारिद्र्यदुःखदहनाय नमः शिवाय॥४॥ पञ्चाननाय फणिराजविभूषणाय।हेमांशुकाय भुवनत्रयमण्डिताय।आनन्दभूमिवरदाय तमोमयाय।दारिद्र्यदुःखदहनाय नमः शिवाय॥५॥ भानुप्रियाय भवसागतारणाय।कालान्तकाय कमलासनपूजिताय।नेत्रत्रयाय शुभलक्षणलक्षिताय।दारिद्र्यदुःखदहनाय नमः शिवाय॥६॥ रामप्रियाय रघुनाथवरप्रदाय।नागप्रियाय नरकार्णवतारणाय।पुण्येषु पुण्यभरिताय सुरार्चिताय।दारिद्र्यदुःखदहनाय नमः शिवाय॥७॥ मुक्तेश्वराय फलदाय गणेश्वराय।गीतप्रियाय वृषभेश्वरवाहनाय।मातङ्गचर्मवसनाय महेश्वराय।दारिद्र्यदुःखदहनाय नमः शिवाय॥८॥

दारिद्र्यदहनशिवस्तोत्रम् Read More »

अर्धनारीश्वरस्तोत्रम् 

शिव

॥ ॐ ॥ चाम्पेयगौरार्धशरीरकायै कर्पूरगौरार्धशरीरकाय । धम्मिल्लकायै च जटाधराय नमः शिवायै च नमः शिवाय ॥ १ ॥ कस्तूरिकाकुङ्कुमचर्चितायै चितारजःपुञ्जविचर्चिताय । कृतस्मरायै विकृतस्मराय नमः शिवायै च नमः शिवाय ॥ २ ॥ झणत्क्वणत्कङ्कणनूपुरायै पादाब्जराजत्फणिनूपुराय । हेमाङ्गदायै भुजगाङ्गदाय नमः शिवायै च नमः शिवाय ॥ ३ ॥ विशालनीलोत्पललोचनायै विकासिपङ्केरुहलोचनाय । समेक्षणायै विषमेक्षणाय नमः शिवायै च नमः शिवाय ॥ ४

अर्धनारीश्वरस्तोत्रम्  Read More »

 नाग स्तुति

शिव

॥ ॐ ॥ शिवाभरणं घोररूपं पञ्चेन्द्रियतारकम् ।नित्यं जाग्रत्स्थिते निष्ठं नागनागम् आश्रयेऽहम् ॥१॥ दोषहरणं कीर्तिकरणं वित्तकल्मषणाशकम् ।अर्थदेहं मङ्गलं नागनागम् आश्रयेऽहम् ॥२॥ सर्वरोगनिवारकं कुटुम्बभाग्यदायकम् ।गर्भसूतिरक्षकं नागनागम् आश्रयेऽहम् ॥३॥ पातालं स्वर्गमर्त्यं त्रैलोक्यवासिनम् ।क्षेत्रपालं भुजङ्गेशं नागनागम् आश्रयेऽहम् ॥४॥

 नाग स्तुति Read More »

 पार्वती वल्लभ अष्टकम्

शिव

॥ ॐ ॥ नमो भूतनाथं नमो देवदेवं नमः कालकालं नमो दिव्यतेजम् । नमः कामभस्मं नमः शान्तशीलं भजे पार्वतीवल्लभं नीलकण्ठम् ॥ १ ॥ सदा तीर्थसिद्धं सदा भक्तरक्षं सदा शैवपूज्यं सदा शुभ्रभस्मम् । सदा ध्यानयुक्तं सदा ज्ञानतल्पं भजे पार्वतीवल्लभं नीलकण्ठम् ॥ २ ॥ श्मशाने शयानं महास्थानवासं शरीरं गजानां सदा चर्मवेष्टम् । पिशाचादिनाथं पशूनां प्रतिष्ठं भजे पार्वतीवल्लभं नीलकण्ठम्

 पार्वती वल्लभ अष्टकम् Read More »

 द्वादश ज्योतिर्लिंग स्तोत्रम्

शिव

 ॥ ॐ ॥ सौराष्ट्रदेशे विशदेऽतिरम्ये ज्योतिर्मयं चन्द्रकलावतंसम् । भक्तिप्रदानाय कृपावतीर्णं तं सोमनाथं शरणं प्रपद्ये ॥ १ ॥ श्रीशैलशृङ्गे विविधप्रसङ्गे शेषाद्रिशृङ्गेऽपि सदा वसन्तम् । तमर्जुनं मल्लिकपूर्वमेनं नमामि संसारसमुद्रसेतुम् ॥ २ ॥ अवन्तिकायां विहितावतारं मुक्तिप्रदानाय च सज्जनानाम् । अकालमृत्योः परिरक्षणार्थं वन्दे महाकालमहासुरेशम् ॥ ३ ॥ कावेरिकानर्मदयोः पवित्रे समागमे सज्जनतारणाय । सदैव मान्धातृपुरे वसन्तम् ओङ्कारमीशं शिवमेकमीडे ॥ ४

 द्वादश ज्योतिर्लिंग स्तोत्रम् Read More »

 शिवाष्टकम् 

शिव

॥ ॐ ॥ प्रभुं प्राणनाथं विभुं विश्वनाथंजगन्नाथनाथं सदानन्दभाजाम् ।भवद्भव्यभूतेश्वरं भूतनाथंशिवं शङ्करं शम्भुमीशानमीडे ॥ १॥ गले रुण्डमालं तनौ सर्पजालंमहाकालकालं गणेशादिपालम् ।जटाजूटगङ्गोत्तरङ्गैर्विशालंशिवं शङ्करं शम्भुमीशानमीडे ॥ २॥ मुदामाकरं मण्डनं मण्डयन्तंमहामण्डलं भस्मभूषाधरं तम् ।अनादिं ह्यपारं महामोहमारंशिवं शङ्करं शम्भुमीशानमीडे ॥ ३॥ वटाधोनिवासं महाट्टाट्टहासंमहापापनाशं सदा सुप्रकाशम् ।गिरीशं गणेशं सुरेशं महेशंशिवं शङ्करं शम्भुमीशानमीडे ॥ ४॥ गिरीन्द्रात्मजासङ्गृहीतार्धदेहंगिरौ संस्थितं सर्वदापन्नगेहम् ।परब्रह्म ब्रह्मादिभिर्वन्द्यमानंशिवं शङ्करं शम्भुमीशानमीडे

 शिवाष्टकम्  Read More »

ब्रह्मा मुरारिस्त्रिपुरान्तकारी

शिव

॥ ॐ ॥ ब्रह्मा मुरारिस्त्रिपुरान्तकारीभानुः शशी भूमिसुतो बुधश्च ।ब्रह्मा मुरारिस्त्रिपुरान्तकारीभानुः शशी भूमिसुतो बुधश्च ।गुरुश्च शुक्रः शनिराहुकेतवःकुर्वन्तु सर्वे मम सुप्रभातम् ॥ १॥ सर्वे ग्रहाः शान्तिकराः भवन्तु ।सर्वे ग्रहाः शान्तिकराः भवन्तु ।सर्वे ग्रहाः शान्तिकराः भवन्तु ॥ ॥ इति ॥ ॥ ॐ श्री ब्रह्मा मुरारिस्त्रिपुरान्तकारी स्तोत्रम् सम्पूर्णम् ॥

ब्रह्मा मुरारिस्त्रिपुरान्तकारी Read More »