॥ ॐ ॥
शिवाभरणं घोररूपं पञ्चेन्द्रियतारकम् ।
नित्यं जाग्रत्स्थिते निष्ठं नागनागम् आश्रयेऽहम् ॥१॥
दोषहरणं कीर्तिकरणं वित्तकल्मषणाशकम् ।
अर्थदेहं मङ्गलं नागनागम् आश्रयेऽहम् ॥२॥
सर्वरोगनिवारकं कुटुम्बभाग्यदायकम् ।
गर्भसूतिरक्षकं नागनागम् आश्रयेऽहम् ॥३॥
पातालं स्वर्गमर्त्यं त्रैलोक्यवासिनम् ।
क्षेत्रपालं भुजङ्गेशं नागनागम् आश्रयेऽहम् ॥४॥
