माँ

भवानीभुजङ्गप्रयातस्तोत्रम्

माँ

॥ ॐ ॥ षडाधारपङ्केरुहान्तर्विराज–त्सुषुम्नान्तरालेऽतितेजोल्लसन्तीम् ।सुधामण्डलं द्रावयन्तीं पिबन्तींसुधामूर्तिमीडे चिदानन्दरूपाम् ॥ १ ॥ ज्वलत्कोटिबालार्कभासारुणाङ्गींसुलावण्यशृङ्गारशोभाभिरामाम् ।महापद्मकिञ्जल्कमध्ये विराज–त्त्रिकोणे निषण्णां भजे श्रीभवानीम् ॥ २ ॥ क्वणत्किङ्किणीनूपुरोद्भासिरत्न–प्रभालीढलाक्षार्द्रपादाब्जयुग्मम् ।अजेशाच्युताद्यैः सुरैः सेव्यमानंमहादेवि मन्मूर्ध्नि ते भावयामि ॥ ३ ॥ सुशोणाम्बराबद्धनीवीविराज–न्महारत्नकाञ्चीकलापं नितम्बम् ।स्फुरद्दक्षिणावर्तनाभिं च तिस्रोवलीरम्ब ते रोमराजिं भजेऽहम् ॥ ४ ॥ लसद्वृत्तमुत्तुङ्गमाणिक्यकुम्भो–पमश्रीस्तनद्वन्द्वमम्बाम्बुजाक्षि ।भजे दुग्धपूर्णाभिरामं तवेदंमहाहारदीप्तं सदा प्रस्नुतास्यम् ॥ ५ ॥ शिरीषप्रसूनोल्लसद्बाहुदण्डै–र्ज्वलद्बाणकोदण्डपाशाङ्कुशैश्च ।चलत्कङ्कणोदारकेयूरभूषो–ज्ज्वलद्भिर्लसन्तीं भजे श्रीभवानीम् ॥ […]

भवानीभुजङ्गप्रयातस्तोत्रम् Read More »

देव्यपराजितास्तोत्रम्

माँ

॥ ॐ ॥ नमो देव्यै महादेव्यै शिवायै सततं नमः ।नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ॥ १ ॥ रौद्रायै नमो नित्यायै गौर्यै धात्र्यै नमो नमः ।ज्योत्स्नायै चेन्दुरूपिण्यै सुखायै सततं नमः ॥ २ ॥ कल्याण्यै प्रणतावृद्ध्यै सिद्ध्यै कुर्मो नमो नमः ।नैरृत्यै भूभृतां लक्ष्म्यै शर्वाण्यै ते नमो नमः ॥ ३ ॥ दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै ।ख्यात्यै

देव्यपराजितास्तोत्रम् Read More »

देव्यपराधक्षमापणस्तोत्रम्

माँ

॥ ॐ ॥ न मन्त्रं नो यन्त्रं तदपि च न जाने स्तुतिमहोन चाह्वानं ध्यानं तदपि च न जाने स्तुतिकथाः ।न जाने मुद्रास्ते तदपि च न जाने विलपनंपरं जाने मातस्त्वदनुसरणं क्लेशहरणम् ॥ १ ॥ विधेरज्ञानेन द्रविणविरहेणालसतयाविधेयाशक्यत्वात्तव चरणयोर्या च्युतिरभूत् ।तदेतत् क्षन्तव्यं जननि सकलोद्धारिणि शिवेकुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥ २ ॥ पृथिव्यां पुत्रास्ते जननि बहवः सन्ति

देव्यपराधक्षमापणस्तोत्रम् Read More »

त्रिपुरसुन्दरीअष्टकम्

माँ

॥ ॐ ॥ कदम्बवनचारिणीं मुनिकदम्बकादम्बिनींनितम्बजितभूधरां सुरनितम्बिनीसेविताम् ।नवाम्बुरुहलोचनामभिनवाम्बुदश्यामलांत्रिलोचनकुटुम्बिनीं त्रिपुरसुन्दरीमाश्रये ॥ १ ॥ कदम्बवनवासिनीं कनकवल्लकीधारिणींमहार्हमणिहारिणीं मुखसमुल्लसद्वारुणीम् ।दयाविभवकारिणीं विशदरोचनाचारिणींत्रिलोचनकुटुम्बिनीं त्रिपुरसुन्दरीमाश्रये ॥ २ ॥ कदम्बवनशालया कुचभरोल्लसन्मालयाकुचोपमितशैलया गुरुकृपालसद्वेलया ।मदारुणकपोलया मधुरगीतवाचालयाकयापि घननीलया कवचिता वयं लीलया ॥ ३ ॥ कदम्बवनमध्यगां कनकमण्डलोपस्थितांषडम्बुरुहवासिनीं सततसिद्धसौदामिनीम् ।विडम्बितजपारुचिं विकचचन्द्रचूडामणिंत्रिलोचनकुटुम्बिनीं त्रिपुरसुन्दरीमाश्रये ॥ ४ ॥ कुचाञ्चितविपञ्चिकां कुटिलकुन्तलालङ्कृतांकुशेशयनिवासिनीं कुटिलचित्तविद्वेषिणीम् ।मदारुणविलोचनां मनसिजारिसम्मोहिनींमतङ्गमुनिकन्यकां मधुरभाषिणीमाश्रये ॥ ५ ॥ स्मरेत्प्रथमपुष्पिणीं रुधिरबिन्दुनीलाम्बरांगृहीतमधुपात्रिकां मदविघूर्णनेत्राञ्चलाम् ।घनस्तनभरोन्नतां गलितचूलिकां

त्रिपुरसुन्दरीअष्टकम् Read More »

ललिता पञ्चरत्नस्तोत्रम्

माँ

॥ ॐ ॥ प्रातः स्मरामि ललितावदनारविन्दंबिम्बाधरं पृथुलमौक्तिकशोभिनासम् ।आकर्णदीर्घनयनं मणिकुण्डलाढ्यंमन्दस्मितं मृगमदोज्ज्वलफालदेशम् ॥ १ ॥ प्रातर्भजामि ललिताभुजकल्पवल्लींरक्ताङ्गुलीयलसदङ्गुलिपल्लवाढ्याम् ।माणिक्यहेमवलयाङ्गदशोभमानांपुण्ड्रेक्षुचापकुसुमेषुसृणीर्दधानाम् ॥ २ ॥ प्रातर्नमामि ललिताचरणारविन्दंभक्तेष्टदाननिरतं भवसिन्धुपोतम् ।पद्मासनादिसुरनायकपूजनीयंपद्माङ्कुशध्वजसुदर्शनलाञ्छनाढ्यम् ॥ ३ ॥ प्रातः स्तुवे परशिवां ललितां भवानींत्रय्यन्तवेद्यविभवां करुणानवद्याम् ।विश्वस्य सृष्टिविलयस्थितिहेतुभूतांविद्येश्वरीं निगमवाङ्मनसातिदूराम् ॥ ४ ॥ प्रातर्वदामि ललिते तव पुण्यनामकामेश्वरीति कमलेति महेश्वरीति ।श्रीशाम्भवीति जगतां जननी परेतिवाग्देवतेति वचसा त्रिपुरेश्वरीति ॥ ५ ॥ यः श्लोकपञ्चकमिदं

ललिता पञ्चरत्नस्तोत्रम् Read More »

श्रीमहिषासुरमर्दिनीस्तोत्रम्

माँ

॥ ॐ ॥ अयि गिरिनन्दिनि नन्दितमेदिनि विश्वविनोदिनि नन्दिनुतेगिरिवरविन्ध्यशिरोधिनिवासिनि विष्णुविलासिनि जिष्णुनुते ।भगवति हे शितिकण्ठकुटुम्बिनि भूरिकुटुम्बिनि भूरिकृतेजय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १ ॥ सुरवरवर्षिणि दुर्धरधर्षिणि दुर्मुखमर्षिणि हर्षरतेत्रिभुवनपोषिणि शङ्करतोषिणि कल्मषमोषिणि घोररते ।दनुजनिरोषिणि दितिसुतरोषिणि दुर्मदशोषिणि सिन्धुसुतेजय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ २ ॥ अयि जगदम्ब मदम्ब कदम्बवनप्रियवासिनि हासरतेशिखरिशिरोमणितुङ्गहिमालयशृङ्गनिजालयमध्यगते ।मधुमधुरे मधुकैटभगञ्जिनि कैटभभञ्जिनि रासरतेजय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि

श्रीमहिषासुरमर्दिनीस्तोत्रम् Read More »