गौरी दशकम्
माँ॥ ॐ ॥ लीलालब्धस्थापितलुप्ताखिललोकांलोकातीतैर्योगिभिरन्तश्चिरमृग्याम् ।बालादित्यश्रेणिसमानद्युतिपुञ्जांगौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ १ ॥ प्रत्याहारध्यानसमाधिस्थितिभाजांनित्यं चित्ते निर्वृतिकाष्ठां कलयन्तीम् ।सत्यज्ञानानन्दमयीं तां तनुरूपांगौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ २ ॥ चन्द्रापीडानन्दितमन्दस्मितवक्त्रांचन्द्रापीडालङ्कृतनीलालकभाराम् ।इन्द्रोपेन्द्राद्यर्चितपादाम्बुजयुग्मांगौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ ३ ॥ आदिक्षान्तामक्षरमूर्त्या विलसन्तींभूते भूते भूतकदम्बप्रसवित्रीम् ।शब्दब्रह्मानन्दमयीं तां तटिदाभांगौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ ४ ॥ मूलाधारादुत्थितवीथ्या विधिरन्ध्रंसौरं चान्द्रं व्याप्य विहारज्वलिताङ्गीम् ।येयं सूक्ष्मात्सूक्ष्मतनुस्तां सुखरूपांगौरीमम्बामम्बुरुहाक्षीमहमीडे ॥ ५ ॥ नित्यः शुद्धो निष्कल एको जगदीशःसाक्षी यस्याः सर्गविधौ संहरणे च ।विश्वत्राणक्रीडनलोलां शिवपत्नींगौरीमम्बामम्बुरुहाक्षीमहमीडे […]
