॥ ॐ ॥
ॐ अस्य श्रीबगलामुखीस्तोत्रस्य
नारद ऋषिः।
श्रीबगलामुखी देवता।
मम सन्निहितानां विरोधिनां वाङ्मुखपदबुद्धीनां स्तम्भनार्थे स्तोत्रपाठे विनियोगः।
मध्ये सुधाब्धिमणिमण्डपरत्नवेदि-
सिंहासनोपरिगतां परिपीतवर्णाम् ।
पीताम्बराभरणमाल्यविभूषिताङ्गीं
देवीं भजामि धृतमुद्गरवैरिजिह्वाम् ॥ १ ॥
जिह्वाग्रमादाय करेण देवीं
वामेन शत्रून् परिपीडयन्तीम् ।
गदाभिघातेन च दक्षिणेन
पीताम्बराढ्यां द्विभुजां भजामि ॥ २ ॥
चलत्कनककुण्डलोल्लसितचारुगण्डस्थलां
लसत्कनकचम्पकद्युतिमदिन्दुबिम्बाननाम् ।
गदाहतविपक्षकां कलितलोलजिह्वाञ्चलां
स्मरामि बगलामुखीं विमुखवाङ्मनःस्तम्भिनीम् ॥ ३ ॥
पीयूषोदधिमध्यचारुविलसद्रक्तोत्पले मण्डपे
सत्सिंहासनमौलिपातितरिपुं प्रेतासनाध्यासिनीम् ।
स्वर्णाभां करपीडितारिरसनां भ्राम्यद्गदां विभ्रमां
इत्थं ध्यायति यान्ति तस्य विलयं सद्यः सर्वापदः ॥ ४ ॥
देवि त्वच्चरणाम्बुजार्चनकृते यः पीतपुष्पाञ्जलीन्
भक्त्या वामकरे निधाय च मनुं मन्त्री मनोज्ञाक्षरम् ।
पीठध्यानपरोऽथ कुम्भकवशाद्बीजं स्मरेत्पार्थिवः
तस्यामित्रमुखस्य वाचि हृदये जाड्यं भवेत्तत्क्षणात् ॥ ५ ॥
वादी मूकति कङ्कति क्षितिपतिर्वैश्वानरः शीतति
क्रोधी शाम्यति दुर्जनः सुजनति क्षिप्रानुगः खञ्जति ।
गर्वी खर्वति सर्वविच्च जडति त्वद्यन्त्रणायन्त्रितः
श्रीनित्ये बगलामुखि प्रतिदिनं कल्याणि तुभ्यं नमः ॥ ६ ॥
मन्त्रस्तावदयं विपक्षदलने स्तोत्रं पवित्रं च ते
यन्त्रं वादिनियन्त्रणं त्रिजगतां जैत्रं च चित्रं च ते ।
मातः श्रीबगलेति नाम ललितं यस्यास्ति जन्तोर्मुखे
त्वन्नामग्रहणेन संसदि मुखस्तम्भो भवेद्वादिनाम् ॥ ७ ॥
दुष्टस्तम्भनमुग्रविघ्नशमनं दारिद्र्यविद्रावणं
भूभृद्भीशमनं चलन्मृगदृशां चेतःसमाकर्षणम् ।
सौभाग्यैकनिकेतनं समदृशः कारुण्यपूर्णामृतं
मृत्योर्मारणमाविरस्तु पुरतो मातस्त्वदीयं वपुः ॥ ८ ॥
मातर्भञ्जय मे विपक्षवदनां जिह्वां च सङ्कीलय
ब्राह्मीं मुद्रय नाशयाशु धिषणामुग्रां गतिं स्तम्भय ।
शत्रूंश्चूर्णय देवि तीक्ष्णगदया गौराङ्गि पीताम्बरे
विघ्नौघं बगले हर प्रणमतां कारुण्यपूर्णेक्षणे ॥ ९ ॥
मातर्भैरवि भद्रकालि विजये वाराहि विश्वाश्रये
श्रीविद्ये समये महेशि बगले कामेशि रामे रमे ।
मातङ्गि त्रिपुरे परात्परतरे स्वर्गापवर्गप्रदे
दासोऽहं शरणागतः करुणया विश्वेश्वरि त्राहि माम् ॥ १० ॥
संरम्भे शौर्यसङ्घे प्रहरणसमये बन्धने वारिमध्ये
विद्यावादे विवादे प्रतिकृतिनृपतौ दिव्यकाले निशायाम् ।
वश्ये वा स्तम्भने वा रिपुवधसमये निर्जने वा वने वा
गच्छंस्तिष्ठंस्त्रिकालं यदि पठति शिवं प्राप्नुयादाशु धीरः ॥ ११ ॥
त्वं विद्या परमा त्रिलोकजननी विघ्नौघसञ्छेदिनी
योषाकर्षणकारिणी त्रिजगतामानन्दसंवर्धिनी ।
दुष्टोच्चाटनकारिणी जनमनःसम्मोहसन्दायिनी
जिह्वाकीलनभैरवी विजयते ब्रह्मास्त्रमन्त्रो यथा ॥ १२ ॥
विद्यालक्ष्मीः सर्वसौभाग्यमायुः
पुत्रैः पौत्रैः सर्वसाम्राज्यसिद्धिः ।
मानो भोगो वश्यमारोग्यसौख्यं
प्राप्तं तत्तद्भूतलेऽस्मिन्नरेण ॥ १३ ॥
यत्कृतं च जपं होमं गदितं परमेश्वरि ।
दुष्टानां निग्रहार्थाय तद्गृहाण नमोऽस्तु ते ॥ १४ ॥
पीताम्बरां तां द्विभुजां त्रिनेत्रां गात्रोज्ज्वलाम् ।
शिलामुद्गरहस्तां च स्मरेत्तां बगलामुखीम् ॥ १५ ॥
ब्रह्मास्त्रमिति विख्यातं त्रिषु लोकेषु विश्रुतम् ।
गुरुभक्ताय दातव्यं न देयं यस्य कस्यचित् ॥ १६ ॥
नित्यं स्तोत्रमिदं पवित्रमिह यो देव्याः पठत्यादरात्
धृत्वा यन्त्रमिदं तथैव समरे बाहौ करे वा गले ।
राजानोऽप्यरयो मदान्धकरिणः सर्पा मृगेन्द्रादिकाः
ते वै यान्ति विमोहिता रिपुगणा लक्ष्मीः स्थिरा सिद्धयः ॥ १७ ॥
॥ इति श्रीरुद्रयामले तन्त्रे श्रीबगलामुखीस्तोत्रं सम्पूर्णम् ॥
