स्तोत्र

॥ गणेशाष्टकम् ॥

श्रीगणेश

॥ ॐ ॥ श्रीगणेशाय नमः यतोऽनन्तशक्तेरनन्ताश्च जीवाः यतो निर्गुणादप्रमेया गुणास्ते । यतो भाति सर्वं त्रिधा भेदभिन्नं सदा तं गणेशं नमामो भजामः ॥ १ ॥ यतश्चाविरासीज्जगत्सर्वमेतत् तथाब्जासनो विश्वगो विश्वगोप्ता । तथैन्द्रादयो देवसङ्घा मनुष्याः सदा तं गणेशं नमामो भजामः ॥ २ ॥ यतो वह्निभानू भवो भूर्जलं च यतः सागराश्चन्द्रमा व्योम वायुः । यतः स्थावरा जङ्गमा वृक्षसङ्घाः सदा […]

॥ गणेशाष्टकम् ॥ Read More »

॥ श्रीगणेशप्रातःस्मरणस्तोत्रम् ॥

श्रीगणेश

॥ ॐ ॥ श्रीगणेशाय नमः प्रातः स्मरामि गणनाथमनाथबन्धुं सिन्दूरपूरपरिशोभितगण्डयुग्मम् । उद्दण्डविघ्नपरिखण्डनचण्डदण्डं आखण्डलादिसुरनायकवृन्दवन्द्यम् ॥ १ ॥ प्रातर्नमामि चतुराननवन्द्यमानम् इच्छानुकूलमखिलं च वरं ददानम् । तं तुण्डिलं द्विरसनाधिपयज्ञसूत्रं पुत्रं विलासचतुरं शिवयोः शिवाय ॥ २ ॥ प्रातर्भजाम्यभयदं खलु भक्तशोक- दावानलं गणविभुं वरकुञ्जरास्यम् । अज्ञानकाननविनाशनहव्यवाहं उत्साहवर्धनमहं सुतमीश्वरस्य ॥ ३ ॥ श्लोकत्रयमिदं पुण्यं सदा साम्राज्यदायकम् । प्रातरुत्थाय सततं यः पठेत्प्रयतः पुमान्

॥ श्रीगणेशप्रातःस्मरणस्तोत्रम् ॥ Read More »

॥ श्रीगणेशमङ्गलाष्टकम् ॥

श्रीगणेश

॥ ॐ ॥ श्रीगणेशाय नमः गजाननाय गाङ्गेयसहजाय सदात्मने । गौरीप्रियतनूजाय गणेशायास्तु मङ्गलम् ॥ १ ॥ नागयज्ञोपवीताय नतविघ्नविनाशिने । नन्द्यादिगणनाथाय नायकायास्तु मङ्गलम् ॥ २ ॥ इभवक्त्राय चेन्द्रादिवन्दिताय चिदात्मने । ईशानप्रेमपात्राय चेष्टदायास्तु मङ्गलम् ॥ ३ ॥ सुमुखाय सुशान्ताय सुखदाय सुखात्मने । सुरवन्द्यपदाम्भोजाय सर्वदास्तु मङ्गलम् ॥ ४ ॥ चतुर्भुजाय चन्द्रार्धविलसन्मस्तकाय च । चरणावनतानन्ततारणायास्तु मङ्गलम् ॥ ५ ॥ वक्रतुण्डाय

॥ श्रीगणेशमङ्गलाष्टकम् ॥ Read More »

॥ श्रीगणपत्यथर्वशीर्षम् ॥

श्रीगणेश

॥ ॐ ॥ ॥ ॐ भद्रं कर्णेभिः शृणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः । स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्योऽरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु ॥ ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ ॥ ॐ नमस्ते गणपतये । त्वमेव प्रत्यक्षं तत्त्वमसि । त्वमेव केवलं कर्ताऽसि । त्वमेव केवलं

॥ श्रीगणपत्यथर्वशीर्षम् ॥ Read More »

॥ श्रीगणेशपञ्चरत्नम् ॥

श्रीगणेश

श्रीमच्छङ्करभगवत्पादविरचितम् ॥ ॐ ॥ मुदाकरात्तमोदकं सदा विमुक्तिसाधकं कलाधरावतंसकं विलासिलोक-रक्षकम् । अनायकैकनायकं विनाशितेभदैत्यकं नताशुभाशुनाशकं नमामि तं विनायकम् ॥ १ ॥ नतेतरातिभीकरं नवोदितार्कभास्वरं नमत्सुरारिनिर्जरं नताधिकापदुद्धरम् । सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं महेश्वरं तमाश्रये परात्परं निरन्तरम् ॥ २ ॥ समस्तलोकशङ्करं निरस्तदैत्यकुञ्जरं दरेतरोदरं वरं वरेभवक्त्रमक्षरम् । कृपाकरं क्षमाकरं मुदाकरं यशस्करं मनस्करं नमस्कृतां नमस्करोमि भास्वरम् ॥ ३ ॥ अकिञ्चनार्तिमार्जनं चिरन्तनोक्तिभाजनं पुरारिपूर्वनन्दनं

॥ श्रीगणेशपञ्चरत्नम् ॥ Read More »