गुरु पादुका स्तोत्रम्
गुरुदेव॥ ॐ ॥ अनंतसंसार-समुद्रतार- नौकायिताभ्यां गुरुभक्तिदाभ्याम् । वैराग्यसाम्राज्यद-पूजनाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥ 1 ॥ कवित्ववाराशि-निशाकराभ्यां दौर्भाग्य-दावांबुद-मालिकाभ्याम् । दूरीकृतानम्र-विपत्तिताभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥ 2 ॥ नता ययोः श्रीपतितां समीयुः कदाचिदप्याशु दरिद्रवर्याः । मूकाश्च वाचस्पतितां हि ताभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥ 3 ॥ नालीकनीकाश-पदाहृताभ्यां नानाविमोहादि-निवारिकाभ्याम् । नमज्जनाभीष्ट-ततिप्रदाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥ 4 ॥ नृपालिमौलि-व्रजरत्नकांति- सरिद्विराजज्झष-कन्यकाभ्याम् । […]
गुरु पादुका स्तोत्रम् Read More »
