॥ गणेशाष्टकम् ॥

॥ ॐ ॥

श्रीगणेशाय नमः

यतोऽनन्तशक्तेरनन्ताश्च जीवाः

यतो निर्गुणादप्रमेया गुणास्ते ।

यतो भाति सर्वं त्रिधा भेदभिन्नं

सदा तं गणेशं नमामो भजामः ॥ १ ॥

यतश्चाविरासीज्जगत्सर्वमेतत्

तथाब्जासनो विश्वगो विश्वगोप्ता ।

तथैन्द्रादयो देवसङ्घा मनुष्याः

सदा तं गणेशं नमामो भजामः ॥ २ ॥

यतो वह्निभानू भवो भूर्जलं च

यतः सागराश्चन्द्रमा व्योम वायुः ।

यतः स्थावरा जङ्गमा वृक्षसङ्घाः

सदा तं गणेशं नमामो भजामः ॥ ३ ॥

यतो दानवा किंनरा यक्षसङ्घाः

यतश्चारणाः वारणाः श्वापदाश्च ।

यतः पक्षिकीटा यतो वीरुधश्च

सदा तं गणेशं नमामो भजामः ॥ ४ ॥

यतो बुद्धिरज्ञाननाशो मुमुक्षोः

यतः सम्पदो भक्तसन्तोषदाः स्युः ।

यतो विघ्ननाशो यतः कार्यसिद्धिः

सदा तं गणेशं नमामो भजामः ॥ ५ ॥

यतः पुत्रसम्पद्यतो वाञ्छितार्थो

यतो भक्तिविघ्नौघनाशोऽखिलश्च ।

यतो शोकमोहौ यतो काम एव

सदा तं गणेशं नमामो भजामः ॥ ६ ॥

यतोऽनन्तशक्तिः स शेषो बभूव

धराधारणेऽनेक रूपे च शक्तः ।

यतोऽनेकधा स्वर्गलोकाः हि नाना

सदा तं गणेशं नमामो भजामः ॥ ७ ॥

यतो वेदवाचो विकुण्ठा मनोभिः

सदा नेति नेतीति यं गृणन्ति ।

परब्रह्मरूपं चिदानन्दरूपं

सदा तं गणेशं नमामो भजामः ॥ ८ ॥

फलश्रुतिः

गणेशाष्टकमिदं पुण्यं

यः पठेन्नियतः शुचिः ।

सर्वकार्येषु सिद्धिं च

लभते नात्र संशयः ॥

॥ इति श्रीगणेशाष्टकं सम्पूर्णम् ॥

Leave a Comment

Your email address will not be published. Required fields are marked *