॥ श्रीगणपत्यथर्वशीर्षम् ॥

॥ ॐ ॥

॥ ॐ भद्रं कर्णेभिः शृणुयाम देवाः ।

भद्रं पश्येमाक्षभिर्यजत्राः ।

स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः ।

स्वस्ति न इन्द्रो वृद्धश्रवाः ।

स्वस्ति नः पूषा विश्ववेदाः ।

स्वस्ति नस्तार्क्ष्योऽरिष्टनेमिः ।

स्वस्ति नो बृहस्पतिर्दधातु ॥

॥ ॐ शान्तिः शान्तिः शान्तिः ॥

॥ ॐ नमस्ते गणपतये ।

त्वमेव प्रत्यक्षं तत्त्वमसि ।

त्वमेव केवलं कर्ताऽसि ।

त्वमेव केवलं धर्ताऽसि ।

त्वमेव केवलं हर्ताऽसि ।

त्वमेव सर्वं खल्विदं ब्रह्मासि ।

त्वं साक्षादात्माऽसि नित्यम् ॥ १ ॥

ऋतं वच्मि ।

सत्यं वच्मि ॥ २ ॥

अव त्वं माम् ।

अव वक्तारम् ।

अव श्रोतारम् ।

अव दातारम् ।

अव धातारम् ।

अवानूचानमव शिष्यम् ।

अव पश्चात्तात् ।

अव पुरस्तात् ।

अवोत्तरात्तात् ।

अव दक्षिणात्तात् ।

अव चोर्ध्वात्तात् ।

अवाधरात्तात् ।

सर्वतो मां पाहि पाहि समन्तात् ॥ ३ ॥

त्वं वाङ्मयस्त्वं चिन्मयः ।

त्वमानन्दमयस्त्वं ब्रह्ममयः ।

त्वं सच्चिदानन्दाद्वितीयोऽसि ।

त्वं प्रत्यक्षं ब्रह्मासि ।

त्वं ज्ञानमयो विज्ञानमयोऽसि ॥ ४ ॥

सर्वं जगदिदं त्वत्तो जायते ।

सर्वं जगदिदं त्वत्तस्तिष्ठति ।

सर्वं जगदिदं त्वयि लयमेष्यति ।

सर्वं जगदिदं त्वयि प्रत्येति ।

त्वं भूमिरापोऽनलोऽनिलो नभः ।

त्वं चत्वारि वाक्पदानि ॥ ५ ॥

त्वं गुणत्रयातीतः ।

त्वमवस्थात्रयातीतः ।

त्वं देहत्रयातीतः ।

त्वं कालत्रयातीतः ।

त्वं मूलाधारस्थितोऽसि नित्यम् ।

त्वं शक्तित्रयात्मकः ।

त्वां योगिनो ध्यायन्ति नित्यम् ।

त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चन्द्रमास्त्वं ब्रह्म भूर्भुवः सुवरोम् ॥ ६ ॥

गणादिं पूर्वमुच्चार्य वर्णादिं तदनन्तरम् ।

अनुस्वारः परतरः ।

अर्धेन्दुलसितम् ।

तारेण ऋद्धम् ।

एतत्तव मनुस्वरूपम् ।

गकारः पूर्वरूपम् ।

अकारो मध्यमरूपम् ।

अनुस्वारश्चान्त्यरूपम् ।

बिन्दुरुत्तररूपम् ।

नादः सन्धानम् ।

संहिता सन्धिः ।

सैषा गणेशविद्या ।

गणक ऋषिः ।

निचृद्गायत्री छन्दः ।

गणपतिर्देवता ।

ॐ गं गणपतये नमः ॥ ७ ॥

एकदन्ताय विद्महे

वक्रतुण्डाय धीमहि ।

तन्नो दन्तिः प्रचोदयात् ॥ ८ ॥

एकदन्तं चतुर्हस्तं

पाशमङ्कुशधारिणम् ।

रदं च वरदं हस्तैर्बिभ्राणं मूषकध्वजम् ।

रक्तं लम्बोदरं शूर्पकर्णकं रक्तवाससम् ।

रक्तगन्धानुलिप्ताङ्गं रक्तपुष्पैः सुपूजितम् ।

भक्तानुकम्पिनं देवं जगत्कारणमच्युतम् ।

आविर्भूतं च सृष्ट्यादौ प्रकृतेः पुरुषात्परम् ।

एवं ध्यायति यो नित्यं स योगी योगिनां वरः ॥ ९ ॥

नमो व्रातपतये ।

नमो गणपतये ।

नमः प्रमथपतये ।

नमस्तेऽस्तु लम्बोदरायैकदन्ताय विघ्ननाशिने शिवसुताय श्रीवरदमूर्तये नमः ॥ १० ॥

फलश्रुतिः

एतदथर्वशीर्षं योऽधीते ।

स ब्रह्मभूयाय कल्पते ।

स सर्वविघ्नैर्न बाध्यते ।

स सर्वत्र सुखमेधते ।

स पञ्चमहापापात्प्रमुच्यते ।

सायमधीयानो दिवसकृतं पापं नाशयति ।

प्रातरधीयानो रात्रिकृतं पापं नाशयति ।

सायं प्रातः प्रयुञ्जानोऽपापो भवति ।

सर्वत्राधीयानोऽविघ्नो भवति ।

धर्मार्थकाममोक्षं च विन्दति ।

॥ इति श्रीगणपत्यथर्वशीर्षं सम्पूर्णम् ॥

Leave a Comment

Your email address will not be published. Required fields are marked *