नाग स्तुति
शिव॥ ॐ ॥ शिवाभरणं घोररूपं पञ्चेन्द्रियतारकम् ।नित्यं जाग्रत्स्थिते निष्ठं नागनागम् आश्रयेऽहम् ॥१॥ दोषहरणं कीर्तिकरणं वित्तकल्मषणाशकम् ।अर्थदेहं मङ्गलं नागनागम् आश्रयेऽहम् ॥२॥ सर्वरोगनिवारकं कुटुम्बभाग्यदायकम् ।गर्भसूतिरक्षकं नागनागम् आश्रयेऽहम् ॥३॥ पातालं स्वर्गमर्त्यं त्रैलोक्यवासिनम् ।क्षेत्रपालं भुजङ्गेशं नागनागम् आश्रयेऽहम् ॥४॥
