॥ बटुकभैरवकवचम् ॥
शिव॥ ॐ ॥ महादेव उवाच – प्रीयतां भैरवो देवो नमो वै भैरवाय च ।देवेशि देहरक्षार्थं कारणं कथ्यतां ध्रुवम् ॥ १ ॥ म्रियन्ते साधका येन विना श्मशानभूमिषु ।रणेषु चातिघोरेषु महामृत्युभयेषु च ॥ २ ॥ शृङ्गीसलीलवज्रेषु ज्वरादिव्याधिवह्निषु । देव्युवाच – कथयामि शृणु प्राज्ञ बटुककवचं शुभम् ॥ ३ ॥ गोपनीयं प्रयत्नेन मातृकाजारजो यथा ।ॐ अस्य श्रीबटुकभैरवकवचस्यआनन्दभैरव ऋषिः । […]
