॥ सरस्वती स्तोत्रम् ॥

॥ ॐ ॥ 

या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता । 

या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना । 

या ब्रह्माच्युतशङ्करप्रभृतिभिर्देवैः सदा पूजिता । 

सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ॥ १ ॥

दोर्भिर्युक्ता चतुर्भिः स्फटिकमणिनिभैरक्षमालां दधाना ।

हस्तेनैकेन पद्मं सितमपि च शुकं पुस्तकं चापरेण । 

भासा कुन्देन्दुशङ्खस्फटिकमणिनिभा भासमानाऽसमाना ।

 सा मे वाग्देवतेयं निवसतु वदने सर्वदा सुप्रसन्ना ॥ २ ॥ 

सुरासुरैः सेवितपादपङ्कजा करे विराजत्कमनीयपुस्तका । 

विरिञ्चिपत्नी कमलासनस्थिता सरस्वती नृत्यतु वाचि मे सदा ॥ ३ ॥ 

सरस्वती सरसिजकेसरप्रभा तपस्विनी सितकमलासनप्रिया ।

घनस्तनी कमलविलोललोचना मनस्विनी भवतु वरप्रसादिनी ॥ ४ ॥

सरस्वति नमस्तुभ्यं वरदे कामरूपिणि ।

विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा ॥ ५ ॥

सरस्वति नमस्तुभ्यं सर्वदेवि नमो नमः । 

शान्तरूपे शशिधरे सर्वयोगे नमो नमः ॥ ६ ॥ 

नित्यानन्दे निराधारे निष्कलायै नमो नमः ।

विद्याधरे विशालाक्षि शुद्धज्ञाने नमो नमः ॥ ७ ॥

शुद्धस्फटिकरूपायै सूक्ष्मरूपे नमो नमः । 

शब्दब्रह्मि चतुर्हस्ते सर्वसिद्ध्यै नमो नमः ॥ ८ ॥ 

मुक्तालङ्कृतसर्वाङ्ग्यै मूलाधारे नमो नमः । 

मूलमन्त्रस्वरूपायै मूलशक्त्यै नमो नमः ॥ ९ ॥ 

मनोन्मनि महाभोगे वागीश्वरि नमो नमः ।

वाग्म्यै वरदहस्तायै वरदायै नमो नमः ॥ १० ॥ 

वेदायै वेदरूपायै वेदान्तायै नमो नमः । 

गुणदोषविवर्जिन्यै गुणदीप्त्यै नमो नमः ॥ ११ ॥

सर्वज्ञाने सदानन्दे सर्वरूपे नमो नमः । 

सम्पन्नायै कुमार्यै च सर्वज्ञे ते नमो नमः ॥ १२ ॥

योगानार्यै उमादेव्यै योगानन्दे नमो नमः । 

दिव्यज्ञानत्रिनेत्रायै दिव्यमूर्त्यै नमो नमः ॥ १३ ॥ 

अर्धचन्द्रजटाधारि चन्द्रबिम्बे नमो नमः । 

चन्द्रादित्यजटाधारि चन्द्रबिम्बे नमो नमः ॥ १४ ॥ 

अणुरूपे महारूपे विश्वरूपे नमो नमः । 

अणिमाद्यष्टसिद्धायै आनन्दायै नमो नमः ॥ १५ ॥

ज्ञानविज्ञानरूपायै ज्ञानमूर्ते नमो नमः । 

नानाशास्त्रस्वरूपायै नानारूपे नमो नमः ॥ १६ ॥ 

पद्मजा पद्मवंशा च पद्मरूपे नमो नमः । 

परमेष्ठ्यै परामूर्त्यै नमस्ते पापनाशिनि ॥ १७ ॥

महादेव्यै महाकाल्यै महालक्ष्म्यै नमो नमः । 

ब्रह्मविष्णुशिवायै च ब्रह्मनार्यै नमो नमः ॥ १८ ॥ 

कमलाकरपुष्पा च कामरूपे नमो नमः । 

कपालिकर्मदीप्तायै कर्मदायै नमो नमः ॥ १९ ॥ 

सायं प्रातः पठेन्नित्यं षण्मासात्सिद्धिरुच्यते । 

चोरव्याघ्रभयं नास्ति पठतां शृण्वतामपि ॥ २० ॥ 

इत्थं सरस्वतीस्तोत्रमगस्त्यमुनिवाचकम् ।

सर्वसिद्धिकरं नॄणां सर्वपापप्रणाशनम् ॥ २१ ॥ 

Leave a Comment

Your email address will not be published. Required fields are marked *