॥ अष्टलक्ष्मी स्तोत्रम् ॥

॥ ॐ ॥ 

आदिलक्ष्मी

सुमनसवन्दित सुन्दरि माधवि, चन्द्रसहोदरि हेममये ।
मुनिगणवन्दित मोक्षप्रदायिनि, मञ्जुलभाषिणि वेदनुते ।
पङ्कजवासिनि देवसुपूजित, सद्गुणवर्षिणि शान्तियुते ।
जय जय हे मधुसूदनकामिनि, आदिलक्ष्मि परिपालय माम् ॥ १ ॥

धान्यलक्ष्मी

अयि कलिकल्मषनाशिनि कामिनि, वैदिकरूपिणि वेदमये ।
क्षीरसमुद्भवमङ्गलरूपिणि, मन्त्रनिवासिनि मन्त्रनुते ।
मङ्गलदायिनि अम्बुजवासिनि, देवगणाश्रितपादयुते ।
जय जय हे मधुसूदनकामिनि, धान्यलक्ष्मि सदा पालय माम् ॥ २ ॥

धैर्यलक्ष्मी

जयवरवर्षिणि वैष्णवि भार्गवि, मन्त्रस्वरूपिणि मन्त्रमये ।
सुरगणपूजित शीघ्रफलप्रद, ज्ञानविकासिनि शास्त्रनुते ।
भवभयहारिणि पापविमोचनि, साधुजनाश्रितपादयुते ।
जय जय हे मधुसूदनकामिनि, धैर्यलक्ष्मि परिपालय माम् ॥ ३ ॥

गजलक्ष्मी

जय जय दुर्गतिनाशिनि कामिनि, सर्वफलप्रद शास्त्रमये ।
रथगजतुरगपदातिसमावृत, परिजनमण्डित लोकनुते ।
हरिहरब्रह्मसुपूजितसेवित, तापनिवारिणि पादयुते ।
जय जय हे मधुसूदनकामिनि, गजलक्ष्मि रूपेण पालय माम् ॥ ४ ॥

सन्तानलक्ष्मी

अयि खगवाहिनि मोहिनि चक्रिणि, रागविवर्धिनि ज्ञानमये ।
गुणगणवारिधि लोकहितैषिणि, स्वरसप्तभूषित गाननुते ।
सकलसुरासुरदेवमुनीश्वर, मानववन्दित पादयुते ।
जय जय हे मधुसूदनकामिनि, सन्तानलक्ष्मि त्वं पालय माम् ॥ ५ ॥

विजयलक्ष्मी

जय कमलासिनि सद्गतिदायिनि, ज्ञानविकासिनि गानमये ।
अनुदिनमर्चित कुङ्कुमधूसर, भूषितवासित वाद्यनुते ।
कनकधरास्तुतिवैभववन्दित, शङ्करदेशिकमान्यपदे ।
जय जय हे मधुसूदनकामिनि, विजयलक्ष्मि सदा पालय माम् ॥ ६ ॥

विद्यालक्ष्मी

प्रणतसुरेश्वरि भारति भार्गवि, शोकविनाशिनि रत्नमये ।
मणिमयभूषित कर्णविभूषण, शान्तिसमावृत हास्यमुखे ।
नवनिधिदायिनि कलिमलहारिणि, कामितफलप्रद हस्तयुते ।
जय जय हे मधुसूदनकामिनि, विद्यालक्ष्मि सदा पालय माम् ॥ ७ ॥

धनलक्ष्मी

धिमिधिमि धिन्धिमि धिन्धिमि-दिन्धिमि, दुन्दुभिनादसुपूर्णमये ।
घुमघुम घुङ्घुम घुङ्घुम घुङ्घुम, शङ्खनिनादसुवाद्यनुते ।
वेदपुराणेतिहाससुपूजित, वैदिकमार्गप्रदर्शयुते ।
जय जय हे मधुसूदनकामिनि, धनलक्ष्मि रूपेण पालय माम् ॥ ८ ॥

फलश्रुतिः

श्लोकः

अष्टलक्ष्मि नमस्तुभ्यं वरदे कामरूपिणि ।
विष्णुवक्षःस्थलारूढे भक्तमोक्षप्रदायिनि ॥

श्लोकः

शङ्खचक्रगदाहस्ते विश्वरूपिणि ते जयः ।
जगन्मात्रे च मोहिन्यै मङ्गलं शुभमङ्गलम् ॥

Leave a Comment

Your email address will not be published. Required fields are marked *