गायत्री वन्दना

॥ ॐ ॥

ॐकाररूपा त्रिपदा त्रयी च त्रिदेववन्द्या त्रिदिवाधिदेवी ।
त्रिलोककर्त्री त्रितयस्य भर्त्री त्रैकालिकी सङ्कलनाविधात्री ॥१॥

त्रैगुण्यभेदात् त्रिविधस्वरूपा त्रैविध्ययुक्तस्य फलस्य दात्री ।
तथापवर्गस्य विधायिनी त्वं दयार्द्रदृक्कोणविलोकनेन ॥२॥

त्वं वाङ्मयी विश्ववदान्यमूर्तिर्विश्वस्वरूपापि हि विश्वगर्भा ।
तत्त्वात्मिका तत्त्वपरात्परा च दृक्तारिका तारकशङ्करस्य ॥३॥

विश्वात्मिके विश्वविलासभूते विश्वाश्रये विश्वविकाशधामे ।
विभूत्यधिष्ठात्रि विभूतिदात्रि पदे त्वदीये प्रणतिर्मदीया ॥४॥

भोगस्य भोक्त्री करणस्य कर्त्री धात्वव्ययप्रत्ययलिङ्गशून्या ।
ज्ञेया न वेदैर्न पुराणभेदैर्ध्येया धिया धारणयादिशक्तिः ॥५॥

नित्या सदा सर्वगताऽप्यलक्ष्या विष्णोर्विधेः शङ्करतोऽप्यभिन्ना ।
शक्तिस्वरूपा जगतोऽस्य शक्तिर्ज्ञातुं न शक्या करणादिभिस्त्वम् ॥६॥

त्यक्तस्त्वयात्यन्तनिरस्तबुद्धिर्नरो भवेद्वैभवभाग्यहीनः ।
हिमालयादप्यधिकोऽत्रतोऽपि जनैः समस्तैरपि लङ्घनीयः ॥७॥

शिवे हरौ ब्रह्मणि भानुचन्द्रयोश्चराचरे गोचरकेऽप्यगोचरे ।
सूक्ष्मातिसूक्ष्मे महतो महत्तमे कला त्वदीया विमला विराजते ॥८॥

सुधामरन्दं तव पादपद्मं स्वे मानसे धारणया निधाय ।
बुद्धिर्मिलिन्दी भवतान्मदीया नातः परं देवि वरं समीहे ॥९॥

दीनेषु हीनेषु गतादरेषु स्वाभाविकी ते करुणा प्रसिद्धा ।
अतः शरण्ये शरणं प्रपन्नं गृहाण मातः प्रणयाञ्जलिं मे ॥१०॥

॥ इति गायत्रीवन्दना समाप्ता ॥

Leave a Comment

Your email address will not be published. Required fields are marked *