॥ श्रीधनलक्ष्मीस्तोत्रम् ॥

॥ ॐ ॥

श्रीधनदा उवाच —

देवी देवमुपागम्य नीलकण्ठं मम प्रियम् ।
कृपया पार्वती प्राह शङ्करं करुणाकरम् ॥१॥

श्रीदेव्युवाच —

ब्रूहि वल्लभ साधूनां दरिद्राणां कुटुम्बिनाम् ।
दरिद्रदलनोपायमञ्जसैव धनप्रदम् ॥२॥

श्रीशिव उवाच —

पूजयन् पार्वतीवाक्यमिदमाह महेश्वरः ।
उचितं जगदम्बासि तव भूतानुकम्पया ॥३॥

ससीतं सानुजं रामं साञ्जनेयं सहानुगम् ।
प्रणम्य परमानन्दं वक्ष्येऽहं स्तोत्रमुत्तमम् ॥४॥

धनदं श्रद्धधानानां सद्यः सुलभकारकम् ।
योगक्षेमकरं सत्यं सत्यमेव वचो मम ॥५॥

पठन्तः पाठयन्तोऽपि ब्राह्मणैरास्तिकोत्तमैः ।
धनलाभो भवेदाशु नाशमेति दरिद्रता ॥६॥

भूभवांशभवां भूत्यै भक्तिकल्पलतां शुभाम् ।
प्रार्थयेत्तां यथाकामं कामधेनुस्वरूपिणीम् ॥७॥

धर्मदे धनदे देवि दानशीले दयाकरे ।
त्वं प्रसीद महेशानि यदर्थं प्रार्थयाम्यहम् ॥८॥

धरामरप्रिये पुण्ये धन्ये धनदपूजिते ।
सुधनं धार्मिकं देहि यजमानाय सत्वरम् ॥९॥

रम्ये रुद्रप्रिये रूपे रामरूपे रतिप्रिये ।
शशिप्रभमनोमूर्ते प्रसीद प्रणते मयि ॥१०॥

आरक्तचरणाम्भोजे सिद्धसर्वार्थदायिके ।
दिव्याम्बरधरे दिव्ये दिव्यमाल्योपशोभिते ॥११॥

समस्तगुणसम्पन्ने सर्वलक्षणलक्षिते ।
शरच्चन्द्रमुखे नीले नीलनीरजलोचने ॥१२॥

चञ्चरीकचमूचारुश्रीहारकुटिलालके ।
मत्ते भगवति मातः कलकण्ठरवामृते ॥१३॥

हासावलोकनैर्दिव्यैर्भक्तचिन्तापहारिके ।
रूपलावण्यतारुण्यकारुण्यगुणभाजने ॥१४॥

क्वणत्कङ्कणमञ्जीरे लसल्लीलाकराम्बुजे ।
रुद्रप्रकाशिते तत्त्वे धर्माधारे धरालये ॥१५॥

प्रयच्छ यजमानाय धनं धर्मैकसाधनम् ।
मातस्त्वं मेऽविलम्बेन दिशस्व जगदम्बिके ॥१६॥

कृपया करुणागारे प्रार्थितं कुरु मे शुभे ।
वसुधे वसुधारूपे वसुवासववन्दिते ॥१७॥

धनदे यजमानाय वरदे वरदा भव ।
ब्रह्मण्ये ब्राह्मणे पूज्ये पार्वतीशिवशङ्करे ॥१८॥

स्तोत्रं दरिद्रताव्याधिशमनं सुधनप्रदम् ।
श्रीकरे शङ्करे श्रीदे प्रसीद मयि किङ्करे ॥१९॥

पार्वतीशप्रसादेन सुरेशकिङ्करेरितम् ।
श्रद्धया ये पठिष्यन्ति पाठयिष्यन्ति भक्तितः ॥२०॥

सहस्रमयुतं लक्षं धनलाभो भवेद् ध्रुवम् ।
धनदाय नमस्तुभ्यं निधिपद्माधिपाय च ।
भवन्तु त्वत्प्रसादान्मे धनधान्यादिसम्पदः ॥२१॥

॥ इति श्रीधनलक्ष्मीस्तोत्रं अथवा धनेश्वरीस्तोत्रं सम्पूर्णम् ॥

Leave a Comment

Your email address will not be published. Required fields are marked *