॥ पद्मावती स्तोत्रम् ॥

॥ ॐ ॥

विष्णुपत्नि जगन्मातः विष्णुवक्षःस्थलस्थिते ।
पद्मासने पद्महस्ते पद्मावति नमोऽस्तु ते ॥१॥

वेङ्कटेशप्रिये पूज्ये क्षीराब्धितनये शुभे ।
पद्मे रमे लोकमातः पद्मावति नमोऽस्तु ते ॥२॥

कल्याणी कमले कान्ते कल्याणपुरनायिके ।
कारुण्यकल्पलतिके पद्मावति नमोऽस्तु ते ॥३॥

सहस्रदलपद्मस्थे कोटिचन्द्रनिभानने ।
पद्मपत्रविशालाक्षि पद्मावति नमोऽस्तु ते ॥४॥

सर्वज्ञे सर्ववरदे सर्वमङ्गलदायिनि ।
सर्वसम्मानिते देवि पद्मावति नमोऽस्तु ते ॥५॥

सर्वहृद्दहरावासे सर्वपापभयापहे ।
अष्टैश्वर्यप्रदे लक्ष्मि पद्मावति नमोऽस्तु ते ॥६॥

देहि मे मोक्षसाम्राज्यं देहि त्वत्पाददर्शनम् ।
अष्टैश्वर्यं च मे देहि पद्मावति नमोऽस्तु ते ॥७॥

नक्रश्रवणनक्षत्रे कृतोद्वाहमहोत्सवे ।
कृपया पाहि नः पद्मे त्वद्भक्तिभरितान् रमे ॥८॥

इन्दिरे हेमवर्णाभे त्वां वन्दे परमात्मिकाम् ।
भवसागरमग्नं मां रक्ष रक्ष महेश्वरि ॥९॥

कल्याणपुरवासिन्यै नारायण्यै श्रियै नमः ।
श्रुतिस्तुतिप्रगीतायै देवदेव्यै च मङ्गलम् ॥१०॥

Leave a Comment

Your email address will not be published. Required fields are marked *