॥ ॐ ॥
॥ श्रीगणेशाय नमः ॥
वक्रतुण्ड महाकाय
सूर्यकोटिसमप्रभ ।
निर्विघ्नं कुरु मे देव
सर्वकार्येषु सर्वदा ॥
अगजाननपद्मार्कं
गजाननमहर्निशम् ।
अनेकदन्तं भक्तानाम्
एकदन्तमुपास्महे ॥
गजाननं भूतगणादिसेवितं
कपित्थजम्बूफलचारुभक्षणम् ।
उमासुतं शोकविनाशकारणं
नमामि विघ्नेश्वरपादपङ्कजम् ॥
शुक्लाम्बरधरं विष्णुं
शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत्
सर्वविघ्नोपशान्तये ॥
सर्वमङ्गलमाङ्गल्ये
शिवे सर्वार्थसाधिके ।
शरण्ये त्र्यम्बके गौरि
नारायणि नमोऽस्तु ते ॥
त्वमेव माता च पिता त्वमेव
त्वमेव बन्धुश्च सखा त्वमेव ।
त्वमेव विद्या द्रविणं त्वमेव
त्वमेव सर्वं मम देवदेव ॥
कायेन वाचा मनसेन्द्रियैर्वा
बुद्ध्यात्मना वा प्रकृतिस्वभावात् ।
करोमि यद्यत्सकलं परस्मै
नारायणायेति समर्पयामि ॥
॥ इति श्रीगणेशनित्यप्रार्थनाः सम्पूर्णाः ॥
