॥ श्रीगणेशप्रातःस्मरणस्तोत्रम् ॥

॥ ॐ ॥

श्रीगणेशाय नमः

प्रातः स्मरामि गणनाथमनाथबन्धुं

सिन्दूरपूरपरिशोभितगण्डयुग्मम् ।

उद्दण्डविघ्नपरिखण्डनचण्डदण्डं

आखण्डलादिसुरनायकवृन्दवन्द्यम् ॥ १ ॥

प्रातर्नमामि चतुराननवन्द्यमानम्

इच्छानुकूलमखिलं च वरं ददानम् ।

तं तुण्डिलं द्विरसनाधिपयज्ञसूत्रं

पुत्रं विलासचतुरं शिवयोः शिवाय ॥ २ ॥

प्रातर्भजाम्यभयदं खलु भक्तशोक-

दावानलं गणविभुं वरकुञ्जरास्यम् ।

अज्ञानकाननविनाशनहव्यवाहं

उत्साहवर्धनमहं सुतमीश्वरस्य ॥ ३ ॥

श्लोकत्रयमिदं पुण्यं

सदा साम्राज्यदायकम् ।

प्रातरुत्थाय सततं

यः पठेत्प्रयतः पुमान् ॥

तस्य सर्वाणि कार्याणि

सिद्धिं यान्त्यचिरेण तु ।

आयुरारोग्यमैश्वर्यं

अन्ते मोक्षं च विन्दति ॥

॥ इति श्रीगणेशप्रातःस्मरणस्तोत्रं सम्पूर्णम् ॥

Leave a Comment

Your email address will not be published. Required fields are marked *