॥ ॐ ॥
देवि सुरेश्वरि भगवति गङ्गे
त्रिभुवनतारिणि तरलतरङ्गे।
शङ्करमौलिविहारिणि विमले
मम मतिरास्तां तव पदकमले॥१॥
भागीरथिसुखदायिनि मातः
तव जलमहिमा निगमे ख्यातः।
नाहं जाने तव महिमानं
पाहि कृपामयि मामज्ञानम्॥२॥
हरिपदपाद्यतरङ्गिणि गङ्गे
हिमविधुमुक्ताधवलतरङ्गे।
दूरीकुरु मम दुष्कृतिभारं
कुरु कृपया भवसागरपारम्॥३॥
तव जलममलं येन निपीतं
परमपदं खलु तेन गृहीतम्।
मातर् गङ्गे त्वयि यो भक्तः
किल तं द्रष्टुं न यमः शक्तः॥४॥
पतितोद्धारिणि जाह्नवि गङ्गे
खण्डितगिरिवरमण्डितभङ्गे।
मुनिवरकन्ये नरकनिवारिणि
त्रिभुवनधन्ये पावनकारिणि॥५॥
॥ इति श्रीगङ्गापञ्चकम् ॥
