॥ ॐ ॥
निशुम्भशुम्भमर्दनीं प्रचण्डमुण्डखण्डिनीम् ।
वने रणे प्रकाशिनीं भजामि विन्ध्यवासिनीम् ॥१॥
त्रिशूलमुण्डधारिणीं धराविघातहारिणीम् ।
गृहे गृहे निवासिनीं भजामि विन्ध्यवासिनीम् ॥२॥
दरिद्रदुःखहारिणीं सदा विभूतिकारिणीम् ।
वियोगशोकहारिणीं भजामि विन्ध्यवासिनीम् ॥३॥
लसत्सुलोललोचनीं जने सदा वरप्रदाम् ।
कपालशूलधारिणीं भजामि विन्ध्यवासिनीम् ॥४॥
करे मुदा गदाधरां शिवां शिवप्रदायिनीम् ।
वरावराननां शुभां भजामि विन्ध्यवासिनीम् ॥५॥
कपीन्द्रजामिनीप्रदां त्रिधास्वरूपधारिणीम् ।
जले स्थले निवासिनीं भजामि विन्ध्यवासिनीम् ॥६॥
विशिष्टशिष्टकारिणीं विशालरूपधारिणीम् ।
महोदरे विलासिनीं भजामि विन्ध्यवासिनीम् ॥७॥
पुरन्दरादिसेवितां सुरारिवंशखण्डिताम् ।
विशुद्धबुद्धिकारिणीं भजामि विन्ध्यवासिनीम् ॥८॥
॥ इति श्रीविन्ध्येश्वरीस्तोत्रं सम्पूर्णम् ॥
