॥ ॐ ॥
शक्र उवाच —
शाकम्भर्यास्तु कवचं सर्वरक्षाकरं नृणाम् ।
यन्न कस्यचिदाख्यातं तन्मे कथय षण्मुख ॥१॥
स्कन्द उवाच —
शक्र शाकम्भरीदेव्याः कवचं सिद्धिदायकम् ।
कथयामि महाभाग शृणु सर्वशुभावहम् ॥२॥
अस्य श्रीशाकम्भरीकवचस्य स्कन्द ऋषिः ।
शाकम्भरी देवता । अनुष्टुप्छन्दः ।
चतुर्विधपुरुषार्थसिद्ध्यर्थे जपे विनियोगः ॥
ध्यानम्
शूलं खड्गं च डमरुं दधानामभयप्रदाम् ।
सिंहासनस्थां ध्यायामि देवीं शाकम्भरीमहम् ॥३॥
अथ कवचम्
शाकम्भरी शिरः पातु नेत्रे मे रक्तदन्तिका ।
कर्णौ मे नन्दजा पातु नासिकां पातु पार्वती ॥४॥
ओष्ठौ पातु महाकाली महालक्ष्मीश्च मे मुखम् ।
महासरस्वती जिह्वां चामुण्डाऽवतु मे रदान् ॥५॥
कालकण्ठसती कण्ठं भद्रकाली करद्वयम् ।
हृदयं पातु कौमारी कुक्षिं मे पातु वैष्णवी ॥६॥
नाभिं मेऽवतु वाराही ब्राह्मी पार्श्वे ममावतु ।
पृष्ठं मे नारसिंही च योगीशा पातु मे कटिम् ॥७॥
ऊरू मे पातु वामोरू जानुनी जगदम्बिका ।
जङ्घे मे चण्डिका पातु पादौ मे पातु शाम्भवी ॥८॥
शिरःप्रभृति पादान्तं पातु मां सर्वमङ्गला ।
रात्रौ पातु दिवा पातु त्रिसन्ध्यं पातु मां शिवा ॥९॥
गच्छन्तं पातु तिष्ठन्तं शयानं पातु शूलिनी ।
राजद्वारे च कान्तारे खड्गिनी पातु मां पथि ॥१०॥
सङ्ग्रामे सङ्कटे वादे नद्युत्तारे महावने ।
भ्रामणेनात्मशूलस्य पातु मां परमेश्वरी ॥११॥
गृहं पातु कुटुम्बं मे पशुक्षेत्रधनादिकम् ।
योगक्षेमं च सततं पातु मे वनशङ्करी ॥१२॥
इतीदं कवचं पुण्यं शाकम्भर्याः प्रकीर्तितम् ।
यस्त्रिसन्ध्यं पठेच्छक्र सर्वापद्भिः स मुच्यते ॥१३॥
तुष्टिं पुष्टिं तथारोग्यं सन्ततिं सम्पदं च शम् ।
शत्रुक्षयं समाप्नोति कवचस्यास्य पाठतः ॥१४॥
शाकिनीडाकिनीभूतबालग्रहमहाग्रहाः ।
नश्यन्ति दर्शनात्त्रस्ताः कवचं पठतस्त्विदम् ॥१५॥
सर्वत्र जयमाप्नोति धनलाभं च पुष्कलम् ।
विद्यां वाक्पटुतां चापि शाकम्भर्याः प्रसादतः ॥१६॥
आवर्तनसहस्रेण कवचस्यास्य वासव ।
यद्यत्कामयतेऽभीष्टं तत्सर्वं प्राप्नुयाद् ध्रुवम् ॥१७॥
॥ इति श्रीस्कन्दपुराणे स्कन्दप्रोक्तं श्रीशाकम्भरीकवचं सम्पूर्णम् ॥
