॥ श्रीपार्वतीपञ्चकम् ॥

॥ ॐ ॥ 

विनोदमोदमोदिता दयोदयोज्ज्वलान्तरा ।
निशुम्भशुम्भदम्भदारणे सुदारुणाऽरुणा ।
अखण्डगण्डदण्डमुण्डमण्डलीविमण्डिता ।
प्रचण्डचण्डरश्मिरश्मिराशिशोभिता शिवा ॥ १ ॥

अमन्दनन्दिनन्दिनी धराधरेन्द्रनन्दिनी ।
प्रतीर्णशीर्णतारिणी सदार्यकार्यकारिणी ।
तदन्धकान्तकान्तकप्रियेशकान्तकान्तका ।
मुरारिकामचारिकाममारिधारिणी शिवा ॥ २ ॥

अशेषवेषशून्यदेशभर्तृकेशशोभिता ।
गणेशदेवतेशशेषनिर्निमेषवीक्षिता ।
जितस्वशिञ्जिताऽलिकुञ्जपुञ्जमञ्जुगुञ्जिता ।
समस्तमस्तकस्थिता निरस्तकामकस्तवा ॥ ३ ॥

ससम्भ्रमं भ्रमं भ्रमं भ्रमन्ति मूढमानवाः ।
मुधाऽबुधाः सुधां विहाय धावमानमानसाः ।
अधीनदीनहीनवारिहीनमीनजीवना ।
ददातु शम्प्रदाऽनिशं वशंवदार्थमाशिषम् ॥ ४ ॥

विलोललोचनाञ्चितोचितैश्चिता सदा गुणैः ।
अपास्य दास्यमेवमास्यहास्यलास्यकारिणी ।
निराश्रयाऽऽश्रयाश्रयेश्वरी सदा वरीयसी ।
करोतु शं शिवाऽनिशं हि शङ्कराङ्कशोभिनी ॥ ५ ॥

॥ इति श्रीपार्वतीपञ्चकं समाप्तम् ॥

Leave a Comment

Your email address will not be published. Required fields are marked *