श्रीतुळजाभवानीस्तोत्रम् (जगदम्बास्तुतिः)

॥ ॐ ॥

नमोऽस्तु ते महादेवि शिवे कल्याणि शाम्भवि ।
प्रसीद वेदविनुते जगदम्ब नमोऽस्तु ते ॥ १ ॥

जगतामादिभूता त्वं जगत्त्वं जगदाश्रया ।
एकाप्यनेकरूपाऽसि जगदम्ब नमोऽस्तु ते ॥ २ ॥

सृष्टिस्थितिविनाशानां हेतुभूते मुनिस्तुते ।
प्रसीद देवविनुते जगदम्ब नमोऽस्तु ते ॥ ३ ॥

सर्वेश्वरि नमस्तुभ्यं सर्वसौभाग्यदायिनि ।
सर्वशक्तियुतेऽनन्ते जगदम्ब नमोऽस्तु ते ॥ ४ ॥

विविधारिष्टशमनि त्रिविधोत्पातनाशिनि ।
प्रसीद देवि ललिते जगदम्ब नमोऽस्तु ते ॥ ५ ॥

प्रसीद करुणासिन्धो त्वत्तः कारुणिको परः ।
यतो नास्ति महादेवि जगदम्ब नमोऽस्तु ते ॥ ६ ॥

शत्रूञ्जहि जयं देहि सर्वान्कामांश्च देहि मे ।
भयं नाशय रोगांश्च जगदम्ब नमोऽस्तु ते ॥ ७ ॥

जगदम्ब नमोऽस्तु ते हिते जय शम्भोर्दयिते महामते ।
कुलदेवि नमोऽस्तु ते सदा हृदि मे तिष्ठ यतोऽसि सर्वदा ॥ ८ ॥

तुलजापुरवासिन्या देव्याः स्तोत्रमिदं परम् ।
यः पठेत्प्रयतो भक्त्या सर्वान्कामान्स आप्नुयात् ॥ ९ ॥

॥ इति श्रीप. प. श्रीवासुदेवानन्दसरस्वतीविरचितं श्रीतुलजापुरवासिन्या देव्याः स्तोत्रं सम्पूर्णम् ॥

Leave a Comment

Your email address will not be published. Required fields are marked *