॥ श्रीगणेशमङ्गलाष्टकम् ॥

॥ ॐ ॥

श्रीगणेशाय नमः

गजाननाय गाङ्गेयसहजाय सदात्मने ।

गौरीप्रियतनूजाय गणेशायास्तु मङ्गलम् ॥ १ ॥

नागयज्ञोपवीताय नतविघ्नविनाशिने ।

नन्द्यादिगणनाथाय नायकायास्तु मङ्गलम् ॥ २ ॥

इभवक्त्राय चेन्द्रादिवन्दिताय चिदात्मने ।

ईशानप्रेमपात्राय चेष्टदायास्तु मङ्गलम् ॥ ३ ॥

सुमुखाय सुशान्ताय सुखदाय सुखात्मने ।

सुरवन्द्यपदाम्भोजाय सर्वदास्तु मङ्गलम् ॥ ४ ॥

चतुर्भुजाय चन्द्रार्धविलसन्मस्तकाय च ।

चरणावनतानन्ततारणायास्तु मङ्गलम् ॥ ५ ॥

वक्रतुण्डाय वटवे वन्द्याराध्याय धीमते ।

विरूपाक्षसुतायास्तु विघ्नराजाय मङ्गलम् ॥ ६ ॥

प्रमोदामोदरूपाय सिद्धिविज्ञानरूपिणे ।

प्रकृष्टपापनाशाय फलदायास्तु मङ्गलम् ॥ ७ ॥

मङ्गलं गणनाथाय मङ्गलं हरसूनवे ।

मङ्गलं विघ्नराजाय विघ्नहर्त्रेऽस्तु मङ्गलम् ॥ ८ ॥

फलश्रुतिः

यः पठेन्मङ्गलाष्टकं

भक्त्या श्रद्धासमन्वितः ।

तस्य सर्वाणि कार्याणि

सिध्यन्ति गणनायकात् ॥

॥ इति श्रीगणेशमङ्गलाष्टकं सम्पूर्णम् ॥

Leave a Comment

Your email address will not be published. Required fields are marked *