शिवाष्टकम् 

॥ ॐ ॥

प्रभुं प्राणनाथं विभुं विश्वनाथं
जगन्नाथनाथं सदानन्दभाजाम् ।
भवद्भव्यभूतेश्वरं भूतनाथं
शिवं शङ्करं शम्भुमीशानमीडे ॥ १॥

गले रुण्डमालं तनौ सर्पजालं
महाकालकालं गणेशादिपालम् ।
जटाजूटगङ्गोत्तरङ्गैर्विशालं
शिवं शङ्करं शम्भुमीशानमीडे ॥ २॥

मुदामाकरं मण्डनं मण्डयन्तं
महामण्डलं भस्मभूषाधरं तम् ।
अनादिं ह्यपारं महामोहमारं
शिवं शङ्करं शम्भुमीशानमीडे ॥ ३॥

वटाधोनिवासं महाट्टाट्टहासं
महापापनाशं सदा सुप्रकाशम् ।
गिरीशं गणेशं सुरेशं महेशं
शिवं शङ्करं शम्भुमीशानमीडे ॥ ४॥

गिरीन्द्रात्मजासङ्गृहीतार्धदेहं
गिरौ संस्थितं सर्वदापन्नगेहम् ।
परब्रह्म ब्रह्मादिभिर्वन्द्यमानं
शिवं शङ्करं शम्भुमीशानमीडे ॥ ५॥

कपालं त्रिशूलं कराभ्यां दधानं
पदाम्भोजनम्राय कामं ददानम् ।
बलीवर्दमानं सुराणां प्रधानं
शिवं शङ्करं शम्भुमीशानमीडे ॥ ६॥

शरच्चन्द्रगात्रं गणानन्दपात्रं
त्रिनेत्रं पवित्रं धनेशस्य मित्रम् ।
अपर्णाकलत्रं सदा सच्चरित्रं
शिवं शङ्करं शम्भुमीशानमीडे ॥ ७॥

हरं सर्पहारं चिताभूविहारं
भवं वेदसारं सदा निर्विकारम् ।
श्मशाने वसन्तं मनोजं दहन्तं
शिवं शङ्करं शम्भुमीशानमीडे ॥ ८॥

स्वयं यः प्रभाते नरः शूलपाणेः
पठेत् स्तोत्ररत्नमिह प्राप्य रत्नम् ।
सुपुत्रं सुधान्यं सुमित्रं कलत्रं
विचित्रैः समाराध्य मोक्षं प्रयाति ॥

॥ ॐ श्री शिवाष्टकम् सम्पूर्णम् ॥

Leave a Comment

Your email address will not be published. Required fields are marked *