गुरु पादुका स्तोत्रम्

॥ ॐ ॥  

अनंतसंसार-समुद्रतार-

नौकायिताभ्यां गुरुभक्तिदाभ्याम् ।

वैराग्यसाम्राज्यद-पूजनाभ्यां

नमो नमः श्रीगुरुपादुकाभ्याम् ॥ 1 ॥

कवित्ववाराशि-निशाकराभ्यां

दौर्भाग्य-दावांबुद-मालिकाभ्याम् ।

दूरीकृतानम्र-विपत्तिताभ्यां

नमो नमः श्रीगुरुपादुकाभ्याम् ॥ 2 ॥

नता ययोः श्रीपतितां समीयुः

कदाचिदप्याशु दरिद्रवर्याः ।

मूकाश्च वाचस्पतितां हि ताभ्यां

नमो नमः श्रीगुरुपादुकाभ्याम् ॥ 3 ॥

नालीकनीकाश-पदाहृताभ्यां

नानाविमोहादि-निवारिकाभ्याम् ।

नमज्जनाभीष्ट-ततिप्रदाभ्यां

नमो नमः श्रीगुरुपादुकाभ्याम् ॥ 4 ॥

नृपालिमौलि-व्रजरत्नकांति-

सरिद्विराजज्झष-कन्यकाभ्याम् ।

नृपत्वदाभ्यां नतलोकपंक्तेः

नमो नमः श्रीगुरुपादुकाभ्याम् ॥ 5 ॥

पापांधकारार्क-परंपराभ्यां

तापत्रयाहींद्र-खगेश्वराभ्याम् ।

जाड्याब्धि-संशोषण-वाडवाभ्याम्

नमो नमः श्रीगुरुपादुकाभ्याम् ॥ 6 ॥

शमादिषट्कप्रद-वैभवाभ्यां

समाधिदान-व्रतदीक्षिताभ्याम् ।

रमाधवांघ्रि-स्थिरभक्तिदाभ्यां

नमो नमः श्रीगुरुपादुकाभ्याम् ॥ 7 ॥

स्वार्चापराणा-मखिलेष्टदाभ्यां

स्वाहासहायाक्ष-धुरंधराभ्याम् ।

स्वांताच्छभाव-प्रदपूजनाभ्यां

नमो नमः श्रीगुरुपादुकाभ्याम् ॥ 8 ॥

कामादिसर्प-व्रजगारुडाभ्यां

विवेकवैराग्य-निधिप्रदाभ्याम् ।

बोधप्रदाभ्यां द्रुतमोक्षदाभ्यां

नमो नमः श्रीगुरुपादुकाभ्याम् ॥ 9 ॥

Leave a Comment

Your email address will not be published. Required fields are marked *