॥ ॐ ॥
अखण्डमण्डलाकारं व्याप्तं येन चराचरम्।
तत्पादं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ 1 ॥
अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकाया।
चक्षुरुनमिलितं येन तस्मै श्रीगुरवे नमः ॥ 2॥
गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः।
गुरुरेव परं ब्रह्म तस्मै श्रीगुरुवे नमः ॥ 3॥
स्थावरं जगमं व्याप्तं यत्किञ्चितश्चराचरम्।
तत्पादं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ 4॥
चिन्मयं व्यापि यत्सर्वं त्रैलोक्यं सचराचरम्।
तत्पादं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ 5॥
सर्वश्रुतिशिरोरत्नविराजितपदम्बुजः।
वेदांतम्बुजसूर्यो यः तस्मै श्रीगुरवे नमः ॥ 6॥
चैतन्यश्शाश्वतश्शांतः व्योमतीतो निरञ्जनः।
बिन्दुनादकलातीतः तस्मै श्रीगुरवे नमः ॥ 7॥
ज्ञानशक्तिसमारूढः तत्त्वमालाविभूषितः।
भुक्तिमुक्तिप्रदाता च तस्मै श्रीगुरवे नमः॥ 8॥
अनेकजन्मसम्प्राप्तकर्मबन्धविदाहिने।
आत्मज्ञानप्राप्तेन तस्मै श्रीगुरवे नमः ॥ 9॥
शोषणं भवसिन्धोश्च प्रत्यक्षं सारसम्पदाः।
गुरोः पादोदकं सम्यक् तस्मै श्रीगुरवे नमः ॥ 10॥
न गुरुरधिकं तत्त्वं न गुरुरधिकं तपः।
तत्त्वज्ञानात् परं नास्ति तस्मै श्रीगुरवे नमः ॥ ॥॥
मन्नाथः श्रीजगन्नाथः मद्गुरुः श्रीजगद्गुरुः।
मदात्मा सर्वभूतात्मा तस्मै श्रीगुरवे नमः ॥ 12॥
गुरुरादिरानादिश्च गुरुः परमदैवतम्।
गुरो परतं नास्ति तस्मै श्रीगुरवे नमः ॥ 13॥
त्वमेव माता च पिता त्वमेव। त्वमेव बंधुश्च सखा त्वमेव।
त्वमेव विद्या द्रविणं त्वमेव। त्वमेव सर्वं मम देवदेव ॥ 14॥
॥ इति श्रीगुरुस्तोत्रम् ॥
